________________
तर्कतरङ्गिणी
[४] ॥ उद्देशलक्षणपरीक्षाविचारः ॥ (I) उद्देशनिरूपणम् ।
नाम्नेति अत्र च करणत्वविवक्षया तृतीया । नामकरणकं यद्वस्तुनः सङ्कीर्तनं-कथं तदुद्देश इति। तथा च [यदि]मात्रपदं त्यक्तं तदा लक्षणवाक्यान्तर्गते लक्ष्यदेशेऽतिव्याप्तिः । नाममात्रकरणकं वस्तुसङ्कीर्तनस्य सत्त्वात् । नाम च वस्तुप्रतिपादिका संज्ञा । तद्वारणार्थं मात्रपदम् । तथा च लक्ष्यभागे नातिव्याप्तिः, नाममात्रकरणकवस्तुसङ्कीर्तनत्वाभावात् । यथा प्रमाकरणं प्रमाणमित्यत्र लक्ष्यभागे प्रमाणे नाममात्रकरणकं वस्तुसङ्कीर्तनत्वं नास्ति । प्रभाकरणत्वस्यापि सहोच्चारात् प्रमाणमात्रेणानभिधानात् । किन्तु प्रमाकरणत्वेनाप्यभिधानमन्यकरणकमिति नामातिरिक्तस्य यत्करणं प्रमाकरणादि तद्वार्यते । तद्भागेनापि प्रमाणस्याभिधानात् । तच्चेति नामातिरिक्तकरणकं नामकरणके वस्तुसङ्कीर्तनम् ।
___उद्देशस्य लक्षणं पुनरप्यतिव्याप्तम् । कथमतिव्याप्तमित्यत आह-'लक्ष्यभागस्यापीति प्रमाकरणं प्रमाणमित्यत्र यद्यपि वस्तुनः प्रमाणस्य नाममात्रेण प्रमाणपदेनाभिधानं नास्ति तथापि पृथिव्या लक्षणं गन्धवत्वमित्यत्र पृथिवीपदवस्तुनः पृथिवीति पदमात्रेणैवाभिधानात् नान्येन । ततो लक्ष्यभागेऽतिव्याप्तिस्तदवस्थैवेति । अत एव लक्ष्यभागेऽतिव्याप्तिः । यतो लक्ष्यं लक्षणेन नाभिधीयतेयथा प्रमाकरणं प्रमाणमित्यत्र लक्ष्यभागो भवति प्रमाणरूपः । स तु प्रमाणपदेन प्रमाणवाचकत्वेनाभिधीयते, न तु लक्षणेन प्रमाकरणपदेन तद्वाचकत्वात् । यद्यस्य वाचकं भवति तत्तेन नाभिधीयतेयथा घटपदेन घटो नाभिधीयते इतीदमेवाह-लक्षणेनेति अन्यथेति यदि लक्षणेन लक्ष्यं नाभिधीयते तदा लक्ष्यतावच्छेदकलक्षणयोः सामानाधिकरण्यं-एकाधिकरणवृत्तित्वं न स्यादिति। यथा प्रमाकरणं प्रमाणमित्यत्र लक्ष्यतावच्छेदकं भवति प्रत्यक्षादिनिष्ठं प्रमाकरणत्वम् तत्रैव लक्षणस्य प्रमाकरणत्वरूपस्य सत्त्वादिति सामानाधिकरणण्यम् । यदि प्रमाकरणपदेनान्यः प्रमाणातिरिक्तः पदार्थ उच्यते, अथ च प्रमाणपदेन प्रमाणपदार्थ उच्यते तदा प्रमाकरणत्वप्रमाणत्वयोः सामानाधिकरण्यं नागतमिति लक्षणभागेनापि लक्ष्यमुच्यत एवेति नाममात्रकरणकवस्तुसङ्कीर्तनत्वाभावाल्लक्ष्यदेशेनाति-व्याप्तिरिति कण्टकार्थः ।
ननु मात्रपदे दत्तेऽपि प्रमाकरणं प्रमाणमित्यत्र लक्ष्ये भागे यद्यप्यतिव्याप्तिर्वारिता तथापि लक्ष्यविशेषेऽतिव्याप्तेः सत्वादित्याह-पृथिव्या इति-यथा पृथिव्याः किं लक्षणमिति पृष्टे उक्तं 'गन्ध' इत्यत्र नाम्ना पृथिवीति पदमात्रेण वस्तुनः पृथिव्यां सङ्कीर्तनादत्रापि लक्षणवाक्ये नाममात्रेणैव पृथिवीरूपपवस्तुनः सङ्कीर्तनात् । ननु गन्धपदेनापि पृथिव्यभिधीयते, तद(द)वाचकत्वाद्गन्धपदस्येति, तथा च मात्रपदे दत्तेऽपि लक्षणवाक्यान्तर्गतलक्ष्यभागेऽतिव्याप्तिर्न वारितैवेति शङ्कार्थः ।
१. A and B लक्षण but in त. भा. प्र. it is लक्ष्य. २. B omits पृथिवपदवस्तुनः. ३. B प्रत्यक्षादिष्टं प्रमाकरणत्वम्.
तर्क.-३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org