________________
१६
(VII) मिथ्याज्ञानध्वंसः ।
ननु तत्त्वज्ञानमपि मोक्षं प्रति न जनकं किन्तु प्रयोजकमेवेत्यत आह द्वितीयसूत्रं दुःखेति अस्यार्थः-मिथ्याज्ञानं स्थूलोऽहं गौरोऽहं सुप्तोऽहं ममेदमित्यात्मविशेष्यकमपरोक्षं ज्ञानं तच्च वासना त्मकदोष`विशेषात् । तादृशज्ञानादपि वासनान्तरमिति बीजाङ्कुरन्यायेनादिनैव । दोषाः रागद्वेषमोहा इति वा, तैः सहापि बीजाङ्कुरन्यायः, यथा रागादिभिर्मिथ्याज्ञानं तेन च रागादिद्वय इति, तथा चोभयथाऽपि दोषाः प्रवृत्तिजनकाः । यद्यपि योगिनामपि भोगार्थं प्रवृत्तिस्तथापि - अरक्तोऽद्विषंश्च भुङ्क्ते इत्यागमबलात् रागादिजन्यताऽवच्छेदको जातिविशेषः प्रवृत्तित्वाख्यः । स चेश्वरयोगिकृतौ नास्तीति न व्यभिचारः । प्रवृत्तिस्तु धर्माधम प्रति कारणम् । धर्माधर्माभ्यां जन्मशरीरात्मकसंयोगविशेषः । जन्म च दुःखकारणम्। तथा चैतेषामुत्तरोत्तरेषां पूर्वपूर्वकार्यकाणां मिथ्याज्ञानादीनामपायेन तदनन्तरं कार्यापयादपवर्गो मोक्ष इत्यर्थः ।
तर्कतरङ्गिणी
प्रघट्टकार्थो - यथा मिथ्याज्ञानं दोषाणां रागादीनां कारणम् । दोषाः प्रवृत्तिकारणम्, प्रवृत्तिस्तु धर्माधर्मौ प्रति कारणम्, धर्माधम जन्म प्रति कारणम् । जन्म च दुःखं प्रति कारणम् । एवं भावानां कार्यकारणभावो निरुपितः तथा क्रमेणैवोत्तरोत्तराभावः पूर्वपूर्वाभावं प्रति कारणम् । यथा - तत्त्वज्ञानेन मिथ्याज्ञानध्वंसः क्रियते, मिथ्याज्ञाननाशे दोषनाशः, दोषनाशेन प्रवृत्तिनाश:, प्रवृत्तिनाशेन, धर्माधर्मयोः नाश:, तयोर्नाशेन जन्मनाशः जन्मनाशेन च दुःख नाशः, सैवात्यन्तिकी दुःखनिवृत्तिर्मोक्ष इति गीयते। यद्यपि धर्माधर्मप्रतिपादकं पदं सूत्रे नास्ति तथापि तत्पदमध्याकृत्य व्याख्येयम् । तथा च मिथ्याज्ञाननाशा नन्तरं दोषनाशः, दोषानाशानन्तरं प्रवृत्तिनाशः, प्रवृत्तिनाशानन्तरं धर्माधर्मनाशः, तन्नाशानन्तरं जन्मनाश:, ततो दुःखनाशरूपा मुक्तिरिति । तथा च सूत्रेण तत्त्वज्ञानस्य मोक्षं प्रति प्रयोजकत्वम्, न तु कारणत्वम्, कारणत्वं च मिथ्याज्ञानध्वंस एवेति स्थापितम् । (VIII) पुरुषार्थत्वम् ।
पुरुषार्थेति नाम स्वर्गमोक्षान्यपरत्वम् । तथा च प्रकृते मोक्षस्य शास्त्रेण समं सम्बन्धाभावात्तत्रेष्टप्रयोजकताज्ञानाभावात्प्रवृत्ति र्नस्यादित्यर्थः । एतदिति एतत्सूत्रेण प्रामाणप्रमेयेत्यादिसूत्रेण शास्त्रस्य पुरुषार्थत्वं मोक्षप्रयोजकत्वं चावगतम् । तस्मिन्नवगते च शास्त्रे प्रवृत्तिः, प्रवृत्त्युत्तरं 'चैतत्सूत्रपाठे पुरुषार्थत्वज्ञानमित्यन्योन्याश्रय इत्यर्थः । अन्योन्याश्रयमुद्धरति - धनगर्जितेति यथा धनशब्दः श्रूयते परं तस्य क्रमो न ज्ञातस्तथा च प्रथममेवाप्तवाक्यात् श्रुतं यदेतत्सूत्रं तस्मात्पुरुषार्थत्वं मोक्षप्रयोज[क]त्वमवगतम्, ततः शास्त्रे प्रवृत्तिः, ततो तदन्तर्गतत्वेन सूत्रपाठेऽपि प्रवृत्तिरितिनान्योन्याश्रयः । ११
[ इति मोक्षनिरूपणम् ॥]
१. B. सूत्रमित्याह . २. B. -वशात्. ३. B अशक्तो. ४. A - रात्मसं. ५. B चोत्तरो. ६. A omits च. ७. B omits कारणत्वं. ८. B सूत्रेण पाठे. ९. Bomits यदेतत्सूत्रं. १०. A शास्त्रप्रवृत्तिः ११. B adds न द्विगुरिति । but it is redundant as it is out of context here.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org