________________
तर्कतरङ्गिणी
प्राणविभागस्य वा मरणत्वादित्यभिप्रायः । तेनैतादृशो' मरणानन्तरमुपदेशः सम्भवतीति काशीमरणे मोक्षं प्रति प्रयोजकं तत्त्वज्ञानं कारणमिति स्थितिम् ।
सम्प्रदायस्तु मरणस्य तच्छरीरीयज्ञानादिजननात्मकमतः संयोगध्वंसरूपतया ध्वंसस्य चात्मवृत्तितया शरीरान्तरे उपदेशेऽपि न क्षतिर्मरणस्य । तथा तत्पर्यन्तमवस्थायित्वात् । अन्यत्र तत्त्वज्ञानं प्रति श्रवणस्य मननादिद्वारा कारणत्वेऽप्यत्र साक्षादेव कशीमरणेनोपदेशद्वारा तत्त्वज्ञानोत्पादात् । तथा चान्तकालशब्देन मरणोत्तरकाल एव ग्राह्यः । न च काशीमरणं तत्त्वज्ञानेनावश्यक्लृप्तेत्यादिनाऽन्यथासिद्धिरिति वाच्यम् । मननादीनां कल्पनागौरवात् । 'काशीमरणजन्यं तत्त्वज्ञानं भिन्नम्, श्रवणादिजन्यतत्त्वज्ञानं भिन्नम् । अत 'एवैतादृशतत्त्वज्ञाननिष्ठं वैजात्यं मननादिजन्यव्यावृत्तं कल्प्यत इत्याहुः । ।
इति श्रीगुणरत्नगणिविनिर्मिते टिप्पणे प्रयोजकतावादः ॥१३०॥
१५
(VI) ईश्वरसाक्षात्कारस्यमोक्षजनकत्वम् ।
ननु तत्त्वज्ञानं त्वनीश्वरविषयकसाक्षात्कारम्, इदानीमपि सामान्यलक्षणप्रत्यासत्त्या ईश्वरविषयक साक्षात्कारस्य सत्त्वात् नापि दोषाभावात्, विशिष्टेश्वरविषयकसाक्षात्कारत्वमीश्वरसाक्षात्कारानन्तरदोषनाशात् नापि तत्त्वज्ञानत्वं जातिविशेषः । तुल्यन्यायतया यथा ईश्वरसाक्षात्कारस्य मोक्षं प्रति जनकत्वं तथा जीवात्मसाक्षात्कारस्यापि मोक्षजनकतया तत्त्वज्ञानत्वमादाय सङ्करत्वा [ प्र ] सङ्गात्, यत्र दैववशादुभयसमूहालम्बनात्मकं साक्षात्काररूपं ज्ञानं जातं तत्र सङ्करसम्भवादिति चेत्, न । तत्त्वज्ञानत्वं मानसज्ञानत्वव्याप्यो जातिविशेषः । यत्र यत्र सा जातिस्तत्र तत्र मानसज्ञानत्वम्, न तु यत्र यत्र मानसज्ञानत्वम्, तत्र [ तत्र] तत्त्वज्ञानमिति नास्ति ! न च पूर्वोक्तसङ्कर इति वाच्यम्, 'ईश्वरसाक्षात्कारस्यैव मोक्षं प्रति जनकत्वात् । जीवात्मसाक्षात्कारस्य मोक्षं प्रति जनकत्वे प्रमाणाभावात् । नन्वत्रापि किं प्रमाणमिति चेत्, तमेवेत्यादि श्रुतेरेव प्रमाणत्वात् । न च सर्वसाधरण मनारोपितं रूपं तद्वति तत्प्रकारकत्वं मोक्षं प्रतिजनकत्वमिति वाच्यम् । घटादेस्तत्त्वज्ञानमादायेदानीमपि मोक्षापत्तेरिति यथोक्तमेव वाच्यम् ।
१. and ५. B omits the reading between उपदेशो. . विभागस्य शरीरे and काशीमरणजन्यं... भिन्नम् । २. B शरीरान्तरेऽप्यु. ३. B पादत्वात्. ४. B. ज्ञानेनान्यथा. ६. B एव ज्ञान. ७. B इति प्रयोजकतावादः ॥ ८. A reads a footnote here- ईश्वरसाक्षात्कारस्य मोक्षकारणत्वे । ९. B न च तत्रापि १०. A धारणाना. ११. B omits the reading मोक्षं प्रति जनकत्वम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org