________________
१४
तर्कतरङ्गिणी अत्र कश्चिदाह-काशीमरणतत्त्वज्ञानजनकत्वे मानाभावः । 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुतिबलात्तेनैव श्रवणादिरूपेण तत्त्वज्ञानोत्पादश्रवणात् । श्रवणेन मननं जन्यते, मननेन निदिध्यासनं तेन च साक्षात्कारस्तथा चानयैव रीत्या तत्त्वज्ञानोत्पादः श्रवणात् कथं काशीमरणेन श्रवणादिव्यतिरेकेणापि तत्त्वज्ञानं जननीयमिति । न च तत्त्वज्ञानं कथयति 'भगवानिहान्तकाले'इत्यादिवचनात् काशीमरणेऽपि तत्त्वज्ञानोपदेशत्वेन तत्त्वज्ञानोत्पाद इति वाच्यम् । उपदेशस्य स्वातन्त्र्येण काशीमरणस्थलीयमोक्षं प्रति कारणत्वबोधकात् । अन्यथा तत्रापि मननादिकल्पनाप्रसङ्गेन गौरवात् ।
किञ्चान्तकालशब्देन मरणोत्तरकालो वा, मरणक्षणो वा मरणपूर्वकालो वा? नाद्यः । तच्छरीरे मरणोत्तरज्ञानानुत्पादात् । न च शरीरान्तरे तदुपदेश इति वाच्यम् । तथा सत्युपदेशस्य शब्दविधया शब्दादिक्रमेण तत्त्वज्ञानोत्पादकत्वेन सामान्यरूपेण क्लपृप्तकारणभावस्य श्रवणादिरेव तत्त्वज्ञानं प्रति कारणत्वम् (णम् ?) । काशीमरणं तत्त्वज्ञानं प्रत्यप्यन्यथासिद्धमिति तत्त्वज्ञाननिष्ठं न जन्यताववच्छेदकजातिकल्पनम् । न द्वितीयः । मरणद्वितीयक्षणे मरणक्षणे वा ज्ञानानुदयात् । नापि तृतीयः । काशीमरणस्योत्तरकालवृत्तित्वेन तत्त्वज्ञानानुत्पादकत्वात् । न चान्तकालपदेन प्रथमक्षणोत्तरसाधारणः स्थूलकाल एव विवक्षित इति वाच्यम् । तथापि स्वातन्त्रेयणोपदेशस्यैव कारणकारणत्वप्राप्तेः । अत्राहुः-'तमेव विदित्वा[ऽति] मृत्युमेति (श्वे. उप. ३-८)।'-इत्यादि श्रुतिबलाल्लाघवात् । अतिमृत्युपदेन मोक्षरूपसामान्यं प्रति तत्त्वज्ञानस्य कारणत्वं कल्प्यते, शब्देन बाधकाभावात् । मुक्तित्वावच्छेदकावच्छेदेन कार्यत्वं बोध्यते ।
न च तादृशश्रुतितः कार्यत्वं कथं बोध्यते अन्यथासिद्धिनियतोत्तरवृत्तित्वरूपं कार्यत्वं 'तमे वेत्यादि वाक्यामध्यैकेन पदेन बोध्यत इति वाच्यम् । आनन्तर्य 'त्वा'प्रत्ययेन बोध्यते । न च 'त्वा'-प्रत्ययस्य पूर्वकालत्वाबोधे शक्तिः कथमुत्तरकालवृत्तित्वं बोधनीयमिति वाच्यम् । 'त्वा'प्रत्ययस्य उत्तरकाल एव शक्यत्वमिति मणिकारमतमिति । यथा 'भुक्त्वा व्रजती'त्यत्र भोजनानन्तरंतदुत्तरकाल एव गमनं बोध्यते, न तु गमनपूर्वभोजनम्, तथाऽनुभवाभावात् । तथा च वासनाविशिष्टदोषनाशकत्वेनावश्यं पूर्ववर्तित्वेन क्लृप्तस्येश्वरादिविषयकसाक्षात्कारस्य मोक्षार्थिनां प्रवृत्त्यनुरोधात्तत्त्वज्ञानस्यानन्यथासिद्धित्वं कल्प्यमेव । तथा च काशीमरणस्थलेऽपि तत्त्वज्ञानस्यावश्यकतया 'कथयति भगवान्' इत्यादि श्रवणत्तत्त्वज्ञानं प्रति जनकत्वम् । न चोपदेशस्तच्छरीरेऽन्यशरीरे वेति द्वयमपि सम्भवतीति वाच्यम् । अस्मिान्नेव शरीरे उपदेशसम्भवात् । न च मरणानन्तरमस्मिन्नेव शरीरे न उपदेशो सम्भवतीति वाच्यम् । शरीरावच्छेदेनात्मनो विभागस्य शरीरे
१. B मच्छरीरे. २. B omits शब्दादिक्रमेण. ३. B न तत्त्व. ४. B -छेदकत्वेन. ५. B तत्र शरीरे.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org