________________
तर्कतरङ्गिणी
१३
व्यर्थं स्यात् । षष्ठ्या मुख्यार्थो भवति सम्बन्धः, तद्बोधे कर्मत्वं लक्षणयैव भविष्यति, कर्मवचनं व्यर्थं स्यात् । एवमन्यत्रापि सुब्विभक्तौ लक्षणानङ्गीकारः ।
सुबिति किम् ? तिविभक्तौ तु लक्षणा स्वीकर्तव्यैव क्रियत एव । यथा रथो गच्छतीत्यत्र मुख्यार्थस्य कृते बाधग' मनाश्रये लक्षणा । रथो गच्छतीत्यत्र गमनाश्रयो रथ इति नैयायिकमतं, मीमांसकमतं गमनानुकूलव्यापारवान् रथ इति शाब्धबोध इति निरासार्थः । यथा मया पञ्चम्या प्रयोजकत्वं लक्षणया नोच्यते किन्तु शक्त्यैवेति । ततस्त्वदुक्तदूषणमलग्नकमेवेति वेदितव्यम् । स्वोक्तमुपसंहरति तस्मादिति तथा च हेतावेव पञ्चमी । प्रयोजनकत्वं तु हेत्वेकदेशेन बुध्यत इति ।
तत्त्वज्ञानमपीति तत्त्वज्ञानमपि शास्त्रप्रयोज्यं भवति, न तु शास्त्रजन्यम् । यतः शास्त्रश्रवणानन्तरं पदार्थज्ञानं मननरूपम्, तत ईश्वरसाक्षात्कारः । तत्त्वज्ञानमपि मोक्षं प्रति ग्राह्यत्वेन न साक्षाज्जनकं किन्तु मिथ्याज्ञानध्वंसद्वारा । ईश्वरसाक्षात्कारानन्तरं मिथ्याज्ञानं शरीरेऽऽत्मबुद्धिरूपम्, तस्य नाशः, तदनन्तरं मोक्ष इत्यर्थः ।
ननु काशीमरणादेरपि मोक्षजनकत्वमेवास्तु, तादृशश्रुतेः श्रवणादिति चेत्, न । तस्यापि प्रयोजकत्वात् । काशीमरणान्मुक्ति' रित्यात्रापि पञ्चम्या शक्त्यैव प्रयोजकत्वबोधनात्; न तु जनकत्वं गौरवात् । प्रयोजकत्वं तु तत्त्वज्ञानादिद्वारा ।
ननु काशीमरणस्थले तत्त्वज्ञानं द्वारं किमर्थं स्वीक्रियते, तद्व्यतिरेकेणापि मोक्षस्यसम्भवादिति चेत्, न । काशीमरणान्मुक्तिरित्यत्र मुक्ते दुःखध्वंससरूपतया 'कार्यतावच्छेदकवैजात्यादिककल्पनानवकाशेन, अन्यथा तूपपत्त्या तत्त्वज्ञाननिष्ठं वैजात्यं काशीमरणजन्यताऽवच्छेदकं कल्प्यते । काशीमरणजन्यं तत्त्वज्ञानं भिन्नमेव । तत्र काशीमरणजन्यतावच्छेदिकैका जातिरस्ति । यत्र तु मननादिद्वारा तत्त्वज्ञानमुत्पद्यते तत्र सा जातिर्नास्ति । तथा च काशीमरणातिरिक्तस्थले तत्त्वज्ञानोत्पत्तावपि न व्यभिचारः । विशेष्यस्य एव कार्यकारणभावस्वीकारात् । तथा च काशीमरणमपि शास्त्रवत् प्रयोजकमेव ।
ननु तत्त्वज्ञाने काशीमरणजन्यतावच्छेदिका यथा जातिः स्वीक्रियते तथा मुक्तावेव काशीमरणजन्यतावच्छेदिका जातिः कथं न स्वीक्रियते, किमन्तर्गडुना तत्त्वज्ञानेनेति चेत्, न । ध्वंसे जातेरभावादित्युक्तमेव । तथा च काशीमरणेन तत्त्वज्ञानमेव जन्यते ।
१. B ऋते. २. B बाधगमने ३. B नैयायिकमीमांसकमते. ४. B मलग्नमेवे. ५. A reads a footnote here--नियतपूर्ववर्तित्वं हेत्वेकदेशेनैव. ६. A reads a footnote here - प्रयोज्यं पश्चाद्भावि शास्त्रानन्तरभातत्त्वज्ञानस्य. ७. A reads a footnote here-काशीमरणेत्यादिप्रसङ्गेन तत्त्वज्ञानाभावेऽपि मोक्षजननम् । ८. B कार्यतयाऽव.. ९. A reads a footnote here - दुःखध्वंसकार्यस्यैकत्वात्कारणतावच्छेदकं भिन्नम् । १०. B - वच्छेदकै. ११. B मरणे तत्त्व.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org