________________
तर्कतरङ्गिणी
शक्त्यैवेति गो पदेन यथा गोत्वस्योपस्थितिः शक्त्या क्रियते तथा गोरपि स्वातंत्र्येणोपस्थिति क्रियते । तथा त्वगोरन्याविशेषणत्वेन गोपदेन शक्त्यैव स्वतन्त्रतयैवान्याविशेषणतया गोव्यक्त्याऽन्वयः। न तु गोत्वेन समम् बाधात्, तथा प्रकृतेऽपीति ।
१२
अयमर्थः-पदार्थः पदार्थेनेत्यस्यायमर्थः - पदार्थस्य पदार्थेन विशेष्येण साकाङ्क्षेण सममन्वयो भवति न तु पदार्थैकदेशेन विशेषणेन निराकाङ्क्षेणान्वयः पूर्वव्युत्पत्त्या । तथा च प्रकृते विशेषणरूपेणानन्यथासिद्धत्वेन समं मोक्षस्यान्वयो माऽस्तु । निराकाङ्क्षत्वात् । ननु निराकाङ्क्षत्वं कथमिति चेत्, 'अन्यविशेषणत्वेनोपस्थितत्वात् । विशेष्येण नियतपूर्ववर्तित्वरूपेण सममन्वयो भवत्येव। तस्यापि अन्यविशेषणत्वेन साकाङ्क्षत्वात् । तथा च नियतपूर्ववर्तित्वरूपं प्रयोजकत्वं पञ्चम्या शक्त्यैपोपस्थापितं न लक्षणयेति ।
वस्तुतस्तु पदार्थ इत्यादिरप्युत्सर्ग एव न तु नियमः, यतः पदार्थैकदेशेनापि सममन्वय इत्याह पार्थ एवेति पदार्थैकदेशेनापि सममन्वयः, यथा 'पार्थ एव धनुर्धरः' इत्यत्र 'एव' कारार्थो भवत्यन्ययोगव्यवच्छेदः । तस्यैकदेशो भवति अन्योन्याभावस्तेन समं पदार्थस्य पार्थरूपस्यान्वय इति ।
अयमर्थः-पार्थपदेन पार्थरूपोऽर्थ उपस्थापितः । धनुर्धरपदेन धनुर्धररूपपदार्थ उपस्थापितः । एवं 'एवकार' पदेनान्ययोगव्यवच्छेद उपस्थापितः पदार्थोपस्थित्यनन्तरं वाक्यार्थो यः धनुर्धरः प्रतियोगिकान्योन्याभावव्यवच्छेदवान्पार्थः । तथा च पार्थे धनुर्धरप्रतियोगिकान्योन्याभावो नास्तीत्यतो धनुर्धरो न भवति । तथा च एवकारस्य सम्पूर्णोऽर्थोऽन्ययोगव्यवच्छेदः, तस्यैकदेशो भवत्यन्योन्याभाव:, तेन धनुर्धरस्य पार्थस्य चान्वयः । तस्मात्पदार्थैकदेशेनापि सममन्वयो भवति ।
पूर्ववाक्यस्य समाधानं करोति - एवमिति यत्र साकाङ्गता विशेष्ये विशेषणे वा, तत्र पदार्थे वा 'पदार्थैकदेशे वाऽन्वय इति व्युत्पत्तेस्तात्पर्यम् । एतेनेति एतेन पञ्चम्या शक्तिसम्बन्धेन प्रयोजकत्वोपस्थापितकत्वेनेति ।
=
निरस्तमिति किं केनचिदूषणं दत्तमस्ति । पञ्चम्या प्रयोजकत्वे कथं न लक्षणेति तत्र हेतुमाहसुबिति सुब्विभक्तौ लक्षणाङ्गीकारो नास्ति । कुत इति चेत् यदि सुब्विभक्तौ लक्षणाङ्गीकारो नास्ति । कुत इति चेत्-यदि सुब्विभक्तौ लक्षणाङ्गीकारस्तदा स्मृ - ' धातुयोगे कर्मत्वबोधकं षष्ठीपदानुशासनं
१. It is निराकाङ्क्षेण नान्वयः in both A and B. But it gives quite a contrary sense : so न is left out here. २. B अन्यविशेषणनियतपूर्व ३. B लक्षणया नेति. ४. Bomits धनुर्धरपदेन. ५. Bomits च. ६. B विशेषेण विशेष्ये वा. ७. B कदेशेव सममन्वयो भवति । पूर्ववाक्यस्य समाधानं करोति य इति व्यत्प. It is clear that पूर्व... करोति is a mere repetition in B. ८. B धातोर्योगे.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org