________________
तर्कतरङ्गिणी
११ ननु इष्टसाधनताज्ञानस्यैव प्रवर्तकत्वे तृप्त्यथिनस्तृप्त्यकारणीभूते तण्डुलक्रयणादौ प्रवृत्तिः न स्यात् । 'आदि'पदात् घटार्थिनः दण्डाहरणे प्रवृत्तिः न स्यात् दण्डाहरणस्य' घटाजनकत्वादि त्याह तृप्तीति तथा च तण्डुलक्रयणादौ प्रवृत्त्यनुरोधेनेष्टप्रयोजकताज्ञानमेव प्रवर्तकमिति दिक् ।
ननु तत्त्वज्ञानादित्यत्र कथं प्रयोजकत्वे पञ्चमीत्युक्तं-अनुशासनाभावात् , वर्तते चानुशासनं हेतौ पञ्चमीति चेत्, न । अत्रापि वस्तुगत्या हेतावेव पञ्चमी । हेतुत्वं तु पूर्ववर्तित्वगर्भम् । पञ्चम्या तु पूर्ववर्तित्व'गर्भमन्यथासिद्धत्वमुपस्थाप्यते । शक्तै(क्त्यै)व तत्रान्यथासिद्धत्वं विहाय पूर्ववर्तित्वांशभागे मोक्षस्यान्वयः । तथा च पञ्चम्या शक्त्यैव नियतपूर्ववर्तित्वरूपं प्रयोजकत्वमुपस्थापितमित्याह-- प्रयोजकत्वे चेति तथा च घटपदस्य घटत्वविशिष्टे शक्तिः । तथा पञ्चम्याऽनन्यथासिद्धत्वविशिष्टनियतपूर्ववर्तित्वे शक्तिः । यथा घटपदेन घटघटत्वयोः बोधस्तथा पञ्चम्याऽनन्यथासिद्धत्वनियतपूर्ववर्तित्वयोः बोधः ।
नन्वत्र पञ्चम्या प्रयोजकत्वे लक्षणा भवतु, मुख्यार्थस्य हेतुत्वस्य बाधादित्याशक्याहपञ्चम्या न लक्षणेति युक्त्या शक्त्यैव बोधसम्भवादिति भावः । ननु तर्हि मोक्षस्य नियतपूर्ववर्तित्वेन पदार्थकदेशेन समं कथमन्वयः? यतो मोक्षः पदार्थो भवति [मोक्ष]पदवाच्य इत्यर्थः । द्वितीयपदार्थो भवति अनन्यथासिद्धनियतपूर्ववर्तित्वरूपः । तथा च नियतपूर्ववर्तित्वस्य द्वितीयपदार्थैकदेशत्वात्कथं मोक्षरूपपदार्थस्यान्वयः ? यतः पदार्थः पदार्थेनान्वेति न तु पदार्थेकदेशेनेति व्युत्पत्त्याऽन्वयनिषेधमाशक्य दृष्टान्तविधयाऽन्वयं दृढयति-गौरनित्य इति इदं पदद्वयात्मकमेकं वाक्यम् । तेन गो पदेन गोत्वविशिष्टस्योपस्थितिर्जाता । अनित्यपदेन ध्वंसप्रतियोगिन उपस्थितिर्जाता। तथा च गोत्वस्य नित्यतया गोत्वं विहायानित्यत्वस्य गवि यथाऽन्वयः गोत्वे बाधान्नान्वयः । तथा प्रकृतेऽपि नियतपूर्ववर्तित्वांशेऽनन्यथासिद्धिभागं विहायान्वया (यः) बाधकाभावात् । न च पदार्थः पदार्थेन सममन्वेति, व्युत्पत्तिरेव "बाधके सति दृष्टान्ते तु पदार्थों भवति गोत्वविशिष्टो गौः, द्वितीयपदार्थोऽनित्यत्वरूपस्तथाचानित्यत्वरूपस्य पदार्थस्य पदार्थैकदेशेनेति गवा समं कथमन्वय स्तद्वत्प्रकृते दृष्टान्तासिद्धया कथमन्वय इति वाच्यम् । पदार्थः पदार्थेनेति व्युत्पत्तेस्तु न नियमः किन्तूत्सर्गः । कुत्रचिद्भवति कुत्रचिन्नेति ।
१. B omits the reading between आदिपदात्..........घटाजनकत्वादि. २. पूर्ववतित्वमन्यथा. ३. A reads a footnote here-पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन यथा 'घटमानय'-इत्यत्रानयनं घट एवान्वेति न तु पटा(टोs)न्वे[ति]. ४. B omits the reading [मोक्ष] पदवाच्य इत्यर्थः । ५. B पदार्थेनेति. ६. B पदार्थेनेति व्यु.. ७. B बाधिते. ८. A reads a footnote here-बाधका...द्यो नियम उत्सर्गः । ९. A reads a footnote here-यथा राजा गच्छतीति वाक्ये पत्रपत्ररूपैकदेशेनाप्यन्वयसम्भवात ।
___ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org