________________
तर्कतरङ्गिणी (V) प्रयोजकतावादः ॥
प्रयोजकत्वमिति प्रयोजकत्वं नाम कार्यपूर्ववर्तित्वमात्रं न त्वन्यथासिद्धम् । ननु शास्त्रस्यान्यथासिद्धत्वं कथमित्यत आह-शास्त्रेणेति । अनुमितिरूपं यन्मननं तज्जनकं यल्लिङ्गज्ञानं तज्जननेन शास्त्रस्यान्यथासिद्धत्वादित्यर्थः । लिङ्गं तु लक्षणरूपम्, तच्छास्त्रेणैव प्रतिपाद्यते, यथा प्रमाकरणत्वमित्यादि । तथा च मोक्ष'शास्त्रयोः प्रयोज्यप्रयोजकभावो, नतु कार्यकारणभावः इत्युक्तं भवति ।
ननु तर्हि २शास्त्रस्येष्टसाधनत्वज्ञानाभावाच्छास्त्रस्य प्रवृत्त्यनुपपत्तिरित्यत्राह-इष्टप्रयोजकताज्ञानमिति-प्रकृते इष्टस्य मोक्षरूपस्य प्रयोजकं शास्त्रम्, मोक्षजनकतत्त्वज्ञानजनकत्वात् । ननु इष्टसाधनताज्ञानमेव कुतो न प्रवर्तकमित्यत आह-लाघवादिति तथा चेष्टजनकज्ञानापेक्षया प्रयोजकत्वज्ञानस्य "लघुवत्त्वमन्यथा सिद्ध्यन्तभूतत्वेन लाघवम् जनकत्वज्ञानेऽन्यथासिद्ध्यन्तर्गत-त्वेन गौरवमिति भावः । न च कारणताज्ञानं कुत्रापि प्रवर्तकं न स्यात्, तथा च घटर्थिनो दण्डे प्रवृत्तिर्न स्यादिति वाच्यम् । प्रयोजकत्वस्य नियतपूर्ववर्तित्वेन कारणसाधारणत्वात् । न चाननुमतः,६ कुत्रचित्कारणत्वज्ञानात् प्रवृत्तिः, कुत्रचित्प्रयोजकत्वज्ञानादितिवाच्यम् । प्रयोजकत्वस्य नियतपूर्ववर्तित्वेन कारणसाधारणत्वादिष्टप्रयोजकताज्ञानत्वेन रूपेण प्रवर्तकत्वम्, तच्च कारणज्ञानेऽप्यस्तीति नियतपूर्ववर्तित्व-स्योभयसाधारणत्वात् । तथा च कृतिसाध्यत्वबलवदनिष्टाननुबन्धि त्वेनेष्टसाधनता ज्ञानत्वेनैव प्रवर्तकत्वमिति राद्धान्तः । १'कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वे विषभक्षणादौ प्रवृत्तिः स्यात् । अत आह इष्टसाधनतेति । तथा च विषभक्षणे इष्टसाधनत्वज्ञानाभावान्न प्रवृत्तिरित्यर्थः ।
ननु तथाप्यगम्यागमे प्रवृत्तिः स्यात्, तस्यापि कृतिसाध्यत्वे सति इष्टसाधनत्वात् । अत आह बलवदिति । ननु इष्टसाधनत्वे सति बलवदनिष्टाननुबन्धित्वमित्यास्तामिति चेत्, तदा चन्द्रेऽपि प्रवृत्तिः स्यात्, अत आह कृतीति । तथा च कृतिसाध्यत्वज्ञानाभावाच्चन्द्रे न प्रवृत्तिः । एतत् त्रितयविषयकं ज्ञानं प्रवर्तकमिति सिद्धान्तः ।
१. A शास्त्रमोक्षयोः. २. B omits शास्त्रस्य ३. A प्रयोजकत्वस्य. ४. A reads a footnote hereअन्यथासिद्धिचतुष्टयरहितत्वे सति नियतपूर्ववर्तित्वम्, कारणत्वं तु अन(?)न्यथासिद्धिपञ्चकरहितत्वे सति नियतपूर्ववर्तित्वम् । ५. B सिद्धिरत्नभूत. ६. B चानुमतः. ७. A reads a footnote here-एतत्रितयसमुदाय एव न प्रत्येकम् । ८. B ज्ञानेनैव प्रवर्तकत्वम्, ९. B बन्धित्वेष्ट. १०. B ताप्रवर्तक. ११. B कृत. १२. A reads a footnote here-इष्टसाधनताज्ञानं । तत्र नास्तीति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org