________________
तर्कतरङ्गिणी सामानाधिकरण्यं बहुषु स्थानेषु सम्बन्धः । यथा पार्थिवत्वलोहलेख्यत्वयोरिवोत्सर्गो न तु नियम इत्यर्थः ।
न हेतौ इति । अत्र प्रघट्टकार्थः-शास्त्रं मोक्षं प्रति न कारणम्, प्रमाणाभावात् । न च तत्त्वज्ञानादित्येव प्रमाणमिति वाच्यम् । पञ्चम्यां प्रयोजकत्वलाभात् । प्रयोजकत्वं तु जनकजनकत्वं फलपूर्ववर्तित्वमात्रमिति यावत् । एवं जनकधारायामपि प्रयोजकत्वलाभः स्यात् । तथा च मोक्षंप्रति शास्त्रं न साक्षात्कारणम्, शास्त्रस्य शब्दात्मकस्याशुतरविनाशित्वात् । न च तत्त्वज्ञानद्वारेति वाच्यम्, तदाऽप्रयोजकत्वमेव । न च द्वारेण द्वारिणः नान्यथासिद्धिस्तथा च कारणत्वे वेतिवाच्यम्। अन्यथासिद्धिपञ्चकराहित्यं कल्पनीयत्वेन गौरवात् । अयमर्थ:-कारणत्वे स्वीक्रियमाणे - न्यथासिद्धिपञ्चकराहित्यं कल्पनीयमेव । अन्यथासिद्धिरत्रास्त्येव, अन्यत्र क्लुप्तनियतपूर्ववतिन एव कार्यसम्भवे तत्सहभूतत्वं +६अन्यथासिद्धिरित्येकाऽन्यथासिद्धिः ।+ यथाऽन्यचैत्रीयमोक्षं प्रति तत्त्वज्ञानस्य नियतपूर्ववर्तिन एव कार्यसकाशात् मैत्रीयमोक्षसम्भवे सति तत्सहभूतं तत्त्वज्ञानसहभूतं शास्त्रमन्यथासिद्धमिति, यथा घटं प्रति रासभः, तथा च गौरवात् शास्त्रं मोक्षं प्रति न कारणम् । प्रयोजकं तु भवत्येव ।
साक्षादिति तथा च मिथ्याज्ञान' ध्वंसद्वारा मोक्षं प्रति शास्त्रस्य कारणतेत्युक्तं तदपि न सम्भवति । मिथ्याज्ञानध्वंसस्यापि कालान्तरभावित्वात् शास्त्रस्याशुतरविनाशित्वेन तावत्पर्यन्तमनवस्थानात् । मिथ्याज्ञानध्वंसस्य च तत्त्वज्ञानसाध्यत्वेन शास्त्राजन्यत्वाच्च साक्षाच्छब्दात्मक शास्त्रजन्यत्वं नास्तीत्यर्थः । मननेति मननमनुमितिरूपं श्रवणानन्तरं भवति । तदनन्तरं निदिध्यासनं स्मरणरूपम्, तदनन्तरमीश्वरसाक्षात्कारः । 'तमेव विदित्वाऽतिमृत्यमेति' (श्वे. उप. ३. ८) इति ज्ञापकात् । तथा च मननादिद्वाराऽपि शास्त्रस्य न कारणत्वमित्यर्थः; । अनुमिति प्रतिष परामर्शः कारणम्, स्मरणं प्रति संस्कारः कारणम्१२, १२ईश्वरसाक्षात्कारं प्रति योगजधर्मः । तन्मध्य(ध्ये) शास्त्रस्याप्रवेशात् । ततो मननादिद्वाराऽपि शास्त्रस्य मोक्षं प्रति न कारणत्वम् । न श्रवणमेवेति द्वारमिति वाच्यम्, तस्य श्रुतिवाक्यजन्यत्वात्' शास्त्रजन्यश्रवणस्य मोक्षकारणत्वे प्रमाणाभावात् । प्रमाणं च श्रुतिवाक्येऽस्ति यथा श्रोतव्यं श्रुतिवाक्येभ्यः इति ।
१. B स्थलेषु. २. B सम्बन्धे. ३. B omits इत्यर्थः. ४. B omits पूर्व. ५. B सिद्धिरिति वाच्यम् । ६. B omits the reading between +-+ ७. A मोक्षे सा भवति । ८. B omits तत्त्वज्ञानसहभूतं. ९. B omits मोक्षं. १०. B मिथ्याज्ञानद्वारा. ११. B omits प्रति and reads अनुमितिपरामर्शकारणम्. १२. B कारणे. १३. B omits ईश्वर and reads साक्षात्कारे.
तर्क.-२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org