________________
तर्कतरङ्गिणी
जायते । तच्च प्रथमसूत्रात् प्रमाणादिसूत्रात् ज्ञानं जातं - गुरूपदेशेनादिना सङ्केतो गृहीत इति प्रघट्टः ।
(III) प्रसङ्गात् परीक्षाविचारः ।
८
1
मूले परीक्षालक्षणमिदमुपपद्यते न वेति । अस्यार्थः इदम् लक्षणं नोपपद्यते, व्यभिचारित्वात् । यथा गोर्लक्षणं द्रव्यत्वं न भवतीति, भवति च सास्नावत्त्वम्, व्यभिचारित्वाभावात् । एतादृशो यो विचारो व्यभिचारादिनिरासार्थ सा परीक्षेत्युच्यते । न च तस्या' संशयेऽन्तर्भाव इति वाच्यम् । उभयकोट्युपस्थितिमन्तरेणापि तत्प्रतिपाद्यज्ञानात् । संग्रहस्तु एकत्रधर्मिणि नानाकोट्यवगाहिज्ञानरूपः । यथाऽयं स्थाणुर्वापुरुषो वेति । परीक्षायास्तु एकत्र धर्मिणि नानाकोट्यवगाहिज्ञानाभावान्नसंशयेऽन्तर्भावः । तथा चोद्देशादिसूत्राणि पक्षादिज्ञानार्थमवश्यं वाच्यान्येवेति । तथा चोद्देशः पक्षज्ञानार्थम्, लक्षणं तु हेतुज्ञानर्थं परीक्षा च व्यभिचाराद्यभावज्ञानार्थमपेक्ष्यत एव इत्यर्थः । (IV) मोक्षं प्रति शास्त्रस्य न कारणत्वम् ।
कृत्येति कृतिप्रत्यत्नः । तत्त्वज्ञानजनकीभूतः प्रयत्नः श्रवणादिरूप इत्यर्थः । तथैवं श्रवणादिरूपता' तत्त्वज्ञानद्वारा प्राप्यते । अयमर्थः - आत्मनि यत्र क्षणे दुःखाभाव उत्पन्न:, तस्मिन्नेव क्षणे प्राप्त एवेति बोधयितुमधिगम' पदोपादानमित्यर्थः । अन्यथाऽधिगमपदवैयर्थत्वापत्तेः । तत्त्वज्ञानस्येति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वं समागतम्, न शास्त्रस्य । तथा च शास्त्रे इष्टसाधनत्वज्ञानाभावात् प्रवृत्तिर्न स्यात् । इष्टो मोक्षः, तत्साधनं तत्त्वज्ञानम् । शास्त्रे च नेष्टसाधनताऽनेन वाक्येन बोध्या [त]त्कथं तत्र प्रवृत्ती(त्ति ) [ रि] त्यर्थः । ' व्यापारेति शास्त्रस्य = न्यायशास्त्रस्य तत्त्वज्ञानद्वारा मोक्षजनकत्वं बोधयितुं तत्त्वज्ञानादि व्युत्पादनात् । ननु शास्त्रपदेपि व्यापारलाभः सम्भवत्येव, शिष्यते इति शास्त्रम्, अनुशासनस्य' व्यापाररूपता लभ्यत इत्याह-शिष्यतेति' (त इति ) एवं इति अनुशासनं तत्त्वध्यापके गुरौ - तिष्ठतीति तत्रैव मुक्तिः स्यात् ।
व्यापारेति यत्र व्यापारस्तत्रैव फलोत्पत्तिः । यथा दण्डेन घटे जननीये संयोगरूपव्यापारादिकरणे कपाले घटयेत्पत्तिः । दण्डस्य १९ व्यापारः कपालद्वयसंयोगः, तत्रैव घटः । औत्सर्गिकत्वादिति सामानाधिकरण्यात्, ततु व्याप्तेः । अन्यथाऽग्निसंयोगरूपव्यापारवति घटे यथा रूपादिकमुत्पद्यते तथाऽग्नावपि व्यापरस्य संयोगरूपस्य विद्यमानत्वाद्रूपादेरुत्पत्तिः स्यात् ।
१. B तस्य. २. Bomits तु. ३. B omits एव. ४. B यथैव. ५. B रूपया. ६. B omits पद. ७. A reads a footnote here सर्वेषां निमित्तकारणानामसमवायिकारणं व्यापारो भवत्येव, अन्यथा व्यापाराभावे कथं खण्डपटोत्पत्तिरिति । यथा व्यापारवत्त्वे व्यापारिणोः सत्त्वे च यागादिभासे (वे ) ऽपि पूर्वव्यापारसत्त्वे कारणत्वं यागादीनामस्त्येव । ८. B शासनव्या ९. B adds आह after शिष्यत इति . १०. B पुरो. ११. B स्याव्या..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org