SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तर्कतरङ्गिणी [३] ॥ मोक्षनिरूपणम् ॥ (I) पुरुषार्थत्वम् । 'एतावतेति निःश्रयेसपदेन मोक्षप्राप्ततया स्रग्चन्दनवनितादीनां प्राप्ततया च मोक्षस्य कथं पुरुषार्थत्वमित्यर्थः । पुरुषार्थत्वमिति पुरुषार्थत्वं नाम स्वसमानाधिकरणदुःखावृतिः । दुःखध्वंसस्तु सुखान्यतरत्व[म्]। तथा चात्रेदं मोक्षलक्षणमपि स्वपदेन दुःखध्वंसः । तत्समानाधिकरणं यत्कालिकसम्बन्धेन 'यथा जम्यमात्रस्य कालोपाधित्वात् यदनन्तरं दुःखं न जायते 'तत्कालिकसम्बन्धेन दुःखावृत्तिः दु:खं दुःखेन वर्तते यदुखं तत्प्रतियोगिको यो दुःखध्वंसः स एव मुक्तिः । पदकृत्यं-यथा दुःखध्वंसो मुक्तिरित्युक्ते संसारिदशायां मोक्षत्वापत्तिः, तद्वारणार्थ दुःखावृत्तिरिति प्रतियोगिदुःखविशेषणम् । संसारदशायां तु दु:खानन्तरं दुःखस्य सत्त्वात् दुःखावृत्तित्वं नास्ति, तथापि व्यधिकरणदुःखावृत्तित्वमादाय संसारदशायामपि मोक्षत्वापत्तिः । यथा चैत्रीयदुःखेयत्र मैत्रीयदुःखम्', तस्य ध्वंसः सोऽपि दुःखावृत्तिदुःखध्वंसः भवत्येव । तस्यापि मुक्तित्वापत्तिः । अत उक्तं समानाधिकरणेति । चैत्रीयदुःखं तु स्वसमानाधिकरणं न भवतीति । सुखमोक्षान्यतरत्वं पुरुषार्थत्वमिति सुखपदेन स्वर्गादिरूपं सुखम् । "सांसारिकसुखं तु बहुतरदुःखानुविद्धतया पुरुषार्थो न भवति । तथा च निष्कर्षः-स्वर्गमोक्षान्यतरत्वमेव पुरुषार्थः । ननु पुरुषकृतिसाध्यत्वं पुरुषार्थत्वमिति चेत्, न । जलताडनादेरपि पुरुषकृतिसाध्यत्वादपि न पुरुषार्थत्वं तस्येति । तथा च प्रकृते निःश्रेयसपदेन यद्यपि यागेन चन्दनादिजन्यं सुखमाप्यायति, तथापि रुढया निःश्रेयस पदेन मोक्ष एव ग्राह्य इत्यर्थः ।। (II) शक्तिः । स्वरूपज्ञानमिति प्रमाकरणत्वाद्यसाधारणधर्मज्ञानम् । गृहीतशक्तिकेनेति । येन पुरुषेण यस्य पदस्य यस्मिन्नर्थे शक्तिः गृहीता । कोऽर्थः ? यथाऽयं कम्बुग्रीवत्वाद्विशिष्टोऽर्थ घटपदवाच्य एतादृशी शक्तिः । ननु तज्ज्ञानार्थमन्यापेक्षा, तथा प्रकृतेऽपि प्रमाणपदस्य येन चक्षुरादिषु शक्ति र्गृहीता, यथा चक्षुरादिकं प्रमाणपदवाच्यमिति शक्तिग्रहो यस्य वृत्तः तस्य प्रमाणपदश्रवणानन्तरमेव चक्षुरादीनां ज्ञानं १. This discussion on मोक्ष is found before समासवाद in त.भा.प्र. २. B omits तु. ३.The reading between यथा....सम्बन्धेन is not found in B. ४. B omits अपि. ५. A reads here a broken foot note तदन्यान्यत्वं....प्रयोगः । ६. B मुक्तत्वापत्तिः । ७. B पुरुषार्थमि.. ८. B यथाऽयं घटो घटपद. Jain Education International 2010_05 For Private & Personal Use Only • www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy