________________
तर्कतरङ्गिणी
एकत्वस्यान्वयासम्भवात् । यथेतरेतरयोगे शशकुशपलाशान् छिन्धि - इत्यत्र शशादीनां विशेष्यतया ' छेदनक्रियया सममन्वयः तथा प्रमाणादीनामपि विशेष्यतया तत्त्वज्ञानेन सममन्वयः । न च शशेत्यत्रापि साहित्यस्यैव बोध इति वाच्यम् । साहित्येन समं छेदनक्रियया सममन्वयो न स्यात् साहित्यस्य संयोगविशेषत्वेन क्रियाधिकरणत्वाभावात् । तत इतरेतर एव द्वन्द्वः ।
६
नन्वत्र द्वन्द्व एव न सम्भवति, पदार्थाभेदाभावात्; प्रमाणप्रमेयोरभेदात् पदार्थभेदे द्वन्द्व इत्यनुशासनात् । न च पदार्थावच्छेदकभेदे द्वन्द्व इति वाच्यम् सरूपाणामेकशेष (पा अ. १-२-६४) इति सूत्रं व्यर्थं स्यात्; भवति चेदं सूत्रं द्वन्द्वापवादकं यत्र द्वन्द्वस्थ प्रसक्तिस्तत्रेदं सूत्रमपवादकं यथा घटच' घटश्च घयविति; इतरेतरद्वन्द्वप्रसक्तौ द्वन्द्वपवाद एकशेष एव कृतः, अत्र पदार्थतावच्छेदकरूपघटत्वस्य भेदाभावात् द्वन्द्वाप्रसक्तौ तन्निषेधासम्भवात् । प्रसक्तं हि प्रतिषिध्यत इति न्यायादेकशेषसूत्रकरणं व्यर्थं स्यात्; अपि च पदार्थतावच्छेदकभेदे च द्वन्द्वस्तदा कर्मधारयस्योच्छेदो स्याद्यथा नीलोत्पलमित्यत्रापि द्वन्द्वस्यापि सम्भवात्, नीलत्वोत्पलत्वयोः पदार्थतावच्छेदकभेदसत्त्वादिति चेत्, न । पदार्थता' वच्छेदकभेद एव द्वन्द्वः साध्यः ।
न च पूर्वोक्तदोष इति वाच्यम् । सरूपाणामेकशेष एक विभक्तौ ' - इत्यत्र पयश्च पयश्च पयासीत्यत्र सार्थकता स्यात् । यतोऽत्र पदार्थतावच्छेदकजलत्वदुग्धत्वयोर्भेदात् । एवमक्षादिपदस्थलेऽपि सार्थकता बोध्या । न च कर्मधारयोच्छेद इति वाच्यम् । तत्र कर्तृविवक्षाया एव नियामकत्वात् । यदीच्छा कर्मधारये तदा कर्मधारयः, यदि द्वन्द्वे तदा द्वन्द्व एव । तथा च वैयाकरणानां नीलोत्पलत्वयोः सामानाधिकरण्यज्ञानार्थं कर्मधारय इष्टः । तथा च पदार्थताऽवच्छेदकभेदे एव द्वन्द्व इति ।
केचित्तु समस्यमानपदप्रतिपाद्यभेदे द्वन्द्व : - यथा घटपयवित्यत्र समस्यमानपदे घटपटे" । तयोः प्रतिपाद्यौ घटपटौ, अनयोः परस्परभेदसत्त्वात् । कर्मधारये च पदप्रतिपाद्य भेदाभावान्नीलोत्पलमित्यत्र नीलपदे नीलगुणवती लक्षणा । अन्यथा कर्मधारयेऽभेदबुद्धिर्न स्यात् । यदेव नीलरूपवत्तदेपोत्पलमित्यभेदबुद्धौ तु पदयोः समानविभक्तिकत्वं तन्त्रम् । तच्च कर्मधारयेऽस्ति यथा नीलो घट इति । तदपि न, तर्हि र एकस्मिन्नेव घटे घटः घटः घटा : (टौ? ) इत्यापत्तिः स्यात् । घटपदप्रतिपाद्यानां घटत्पटत्वसम्बन्धानां परस्परं भेदसत्त्वात् । अप्रयोगादेव प्रयोग इति चेदप्रयोग एव कथमिति चेत् सार्थाभावादिति सार्थस्तु भेदः । स तु प्रतिपाद्यतावच्छेकदकयोरेवापेक्षितो न तु प्रतिपाद्ययोरपीति दिक् । [ इति समासवादः ]
१. B विशेषतया २. B क्रियाया. ३ A omits एव ४ A omits one घट:. ५. B निषेधाभावात्. ६. B ताविच्छेदक. ७. B पदार्थभाव ८ B यदा. ९. Bomits एव. १०. B घटपटपदे. ११. Bomits पद. १२. B न तस्मिन्नेव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org