SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तर्कतरङ्गिणी [२] ॥ उपोद्घातः ॥ (I) प्रयोजनम् । मीमांसाया इति यथा वेदस्याभिधेयो भवति धर्मः स एव वैशद्यार्थं मीमांसायाः अपि प्रवृत्तायाः अभिधेय इत्यर्थः । उक्तेति उक्तस्य - गुरूक्तस्यार्थे या चिन्ता- विचारणा, तत्र सामर्थ्यविकलो भवति = शून्यो भवति । एवमन्ययोरपि योजना कार्या । अनधिकारिणः ते बाला:- भाष्यादिपाठेऽनधिकार (रि)णः पूर्वोक्तचिन्ताशून्यत्वादित्यर्थः । एतावतेति न्यायस्य = न्यायशास्त्रस्य प्रयोजनं यन्मोक्षरूपं तदेवास्यापि ग्रन्थस्य प्रयोजनम् । (II) सम्बन्धः । तत्सम्बन्धेनेति प्रतिपादकं शास्त्रम् प्रतिपाद्यो मोक्षः । अत एव न्यायस्य यत्प्रतिपाद्यं मोक्षरूपम् तदेवस्यापि ग्रन्थस्य प्रतिपाद्यम् । तथा च यथा न्यायशास्त्रयोः प्रतिपाद्यप्रतिपादकरूपसम्बन्धः तथैतद्ग्रन्थमोक्षयोरपीत्यर्थः । (III) अधिकारी । अधिकारीति यस्य यत्र प्रवृत्तिः स तत्राधिकारी । तथा च प्रवृत्तिकारिणीभूतेच्छावानित्यर्थः । (IV) समासवादः १ प्रमाणेति भ्रान्ताशङ्का निरासायाह न द्विगुरिति तथाविधेति सङ्ख्यापूर्वमादि पूर्वपदाभावात् । अत्र सूत्रे द्वन्द्व एवेतरेतरयोगसाध्यः । विशेष्यतया सर्वेषां प्रमाणादीनां भावात् । तत्त्वज्ञानेन समं स्वातन्त्र्येणान्वयात् । यथा प्रमाणादिविषयकं तत्त्वज्ञानम् । अन्यथा समाहारद्वन्द्वे साहित्यस्यैव विशेष्यतया प्रमाणादेर्विशेषणतया तत्त्वज्ञानेन सममन्वयो न स्यात् । यथाऽहिनकुलं पश्येत् । यत्र दर्शनेन समममहिनकुलयोः संयोगेन सममन्वयात् न तत्राहिनकुलाभ्यामन्वयः अहिनकुलयोस्तु संयोगेनान्वयः । तथा च यत्र पदार्थानां परम्परया क्रियया सममन्वयस्तत्र समाहारद्वन्द्वः । यत्र साहित्यसम्बन्धो विशेषतया भासते स समाहार द्वन्द्वः । ततः समाहारे एकवचनमेव साहित्यस्यैकत्वात् । ननु अहिनकुलमित्यत्राहिनकुलयोः विशेष्यतया भाजं कुतो न भवतीति चेन्नः द्वित्वाश्रये १. गोवर्धन has discussed the समासवाद in his प्रका. after the मोक्षनिरूपणम्, but गुणरत्न does it first. It is natural, therefore, if there is some discrepancy in the order of the प्रतीकs २. B तरेतरद्वन्द्वः ३. B भावात्. ४. B विषयं. ५. B संयोगानामन्वयः । ६. A तत्तु. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy