________________
तर्कतरङ्गिणी विघ्नप्रागभावोऽपि न मङ्गलफलमिति सिद्धम् । (VI) उपाध्यायमतम् ।
उपाध्यायस्तु समाप्तिकामो मङ्गलमाचरेदित्येव वेद: कल्पनीयः । न तु निर्विघ्नसमाप्तिकाम इति । तत्कामनयैव शिष्टानां मङ्गले प्रवृत्तिदर्शनात् स्वर्गकामनयाऽश्वमेधादिप्रवृत्तिवत् । न च व्यभिचारज्ञानात् यागेऽपि प्रवृत्तिः कथं स्यात् तद्व्यतिरेकेणापि गङ्गास्नानादिना स्वर्गोत्पत्तेरिति वाच्यम् । स्वर्गत्वसामानाधिकरण्येनैव रेकारणकत्वं ग्राह्यमिति चेन्न । कार्यत्वकारणत्वस्य व्यापकत्वघटकतया यागे स्वर्गव्यापकत्वाभावात् कारणत्वं ग्रहीतुं न शक्यते । व्यापकमित्यत्र स्वर्गत्वावच्छिनस्वर्गसमानाधिका(क)-रणात्यन्ताभावप्रतियोगितानवच्छेदकत्वं यागत्वम् । तच्चेह नास्ति । तथा च स्वर्गं प्रति यागस्य कारणत्वं ग्रहीतुं न शक्यमिति दृष्टान्ताशुद्धतया मङ्गलेऽपि समाप्ति प्रति कारणत्वं दुर्ग्रहमिति । (VII) नव्यमतम् ।
अत्र नव्याः समादधिरे - कारणत्वमतिरिक्तं स्वरूपसम्बन्धविशेषो नेति मैथिलाः । कारणताबोधस्तु "कारणतात्वेन रूपेण, तदनन्तरं वैजात्यं कल्प्यते । तादृशकारणत्वज्ञानमेव वा प्रवर्तकमिति दिक् । (VIII) मङ्गलस्य स्वरूपनिर्णयः
ननु मङ्गलमङ्गं वा निमित्तं वा प्रधानं वेति ? नाद्यः । मुख्यफलजनकजनकत्वाभावात् । मुख्यं फलं यथा यागे स्वर्गः तज्जनको भवति यागः । तज्जनिका भवति होमादिसामग्री । सा तु अङ्गम् । तथाऽत्र नास्ति । अत्र मुख्यं फलं समाप्तिः । तस्याः जनकं भवति मङ्गलम् । तज्जनकत्वं मङ्गले नास्ति। स्वं प्रति-स्वजनकत्वाभावात् ।
नापि नैमित्तिकम् । अकरणे प्रत्यवायाभावात्
ततस्तृतीय एव पक्षः । स्वातंत्र्येण साक्षात्मुख्यफलंजनकत्वात् । प्रधानमेव मङ्गलम् । प्राधान्येन कारणम् न त्वङ्गत्वादिति दिक् इति श्री वाचकगुणरत्नगणिविरचिते गोवर्धनी टिप्पणे मङ्गलवादः सम्पूर्णः ।
१. यज्ञपतिः. २. B omits प्रवृत्ति. ३. B कारकत्वम् । ४. B omits ग्राह्यमिति चेन्न । ५. A reads here a footnote व्यापकत्व....तेनातिरिक्त [प]दार्थ इति गौडाः । ६. A reads here a footnote यागजन्यताधिकरणत्वं स्वर्गत्वेन तु यागजन्यताव्याप्यत्वम् । अयमर्थः - यत्र यागजन्यता तत्रापि स्वर्गत्वम्, न तु यत्र स्वर्गत्वं तत्र यागजन्यता । ७. B कारणतात्वेन. ८. B कारणकत्व. ९. This colophon is not found in B but the topic ends with -'इति मङ्गलवादः ।'
___ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org