SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तर्कङ्ग ननु तत्समाप्तिं प्रति नतित्वेन कारणत्वे को दोष इति चेत् भगवन्नमस्कारादीनां 'सर्वपापनाशकत्वं श्रुतेस्तादृशपापनाशस्य समाप्तिं प्रति प्रयोजकत्वावगमात् । न तु मङ्गलस्य समाप्तिं प्रति कारणत्वं प्रमाणाभावादन्यथासिद्धेश्च । यथाऽन्यं प्रति पूर्वत्वे गृहीते एव यं प्रति पूर्ववर्तित्वं गृह्यते, स तं प्रत्यन्यथासिद्धः । यथा घटं प्रत्याकाशं 'शब्दजनकत्वे गृहीते, एवं घटं प्रति जनकत्वग्रहात् तथा प्रकृतेऽपि विघ्नध्वंसं प्रति मङ्गलस्य जनकत्वे गृहीते एव समाप्तिं प्रति जनकत्वं गृह्यते इत्यन्यथासिद्धः । तथा च न समासिः फलम्, विघ्नध्वंसकामनयैव शिष्टानामाचारदर्शनात्' । अनागमोऽपि प्रमाणम् यथा - सर्वे विघ्नाः शमं यान्तीति विनायकस्तुतिपाठादौ श्रवणात् । विघ्नध्वंस एवादृष्टद्वारा फलमिति मणिकृत्सम्मतः पन्थाः । (IV) 'मिश्रमतम् । मिश्रास्तु इह प्रारिप्सिते विघ्नो मे माभूदिति कामनया मङ्गले प्रवृत्ते विघ्नप्रागभाव एव फलम्, दुःखं मे माभूदिति कामनया कृतस्य प्रायश्चित्तस्य दुःखानुत्पादफलवत् ‘तावत्पर्यन्तमनवस्थायिनः तस्य पापध्वंसकारकत्वात् मङ्गलेऽपि 'दूरदुष्टध्वंसद्वारकता कल्प्या । "विधिरस्य विघ्नानुत्पादकामो नतिमाचरेदिति कल्प्यः " अन्यथा तत्कामनया प्रवृत्त्यनुपपत्तेरित्याहुः | (V) मिश्रमतपरिहारः । ११ ३ तन्न । प्रागभावस्याजन्यतया मङ्गले इष्टसाधनत्वाभावात् प्रवृत्त्यनुपपत्तेरिष्टसाधनताज्ञानस्यैव प्रवर्तकत्वात् । न चान्वयव्यतिरेकितस्यैव‍ प्रागभावस्य साध्यता वक्तव्येति वाच्यम् । - ४ + मङ्गले सति विघ्नप्रागभावः, तदभावे प्रागभावाभावः विघ्न एवोत्पद्यते तदा + प्रागभावस्य १५सत्वासत्त्वाभ्यां फलोत्पत्त्यनुपपत्तेः । एतदर्थ:- यथा यदि विघ्नप्रागभावः तदा विघ्नोत्पत्तिः केन वार्येत ? यदि विघ्नप्रागभावो नास्ति तदा मङ्गलस्य किं फलं स्यात् ? विघ्नप्रागभावे प्रमाणाभावात् । न च तत्स्थानीयः प्रागभावस्थानीयोऽत्यन्ताभाव एव ग्राह्य इति वाच्यम् । तस्य नित्यत्वेन "फलत्वासम्भवात् । ततो Jain Education International 2010_05 १. B omits सर्व. २. B प्रयोजकाभावात् । ३. B ऽन्यथा. ४. B आकाशः ५. B आचारे. ६. पक्षधरमिश्रः. ७. प्रवृत्तेः. ८. A reads a footnote here कारणं भवति विघ्नध्वंसः । समाप्तिं प्रति विघ्नध्वंसस्य कारणं भवति मङ्गलमिति. ९. Bomits दूर. १०. B विधिरपि ११. B वेदः कल्प्य:. १२. A व्यतिरेकतयैव....... १३. A reads a footnote here - ध्वंसस्य लाभो मोक्षः (योगः ? ) । लब्धस्य परिपालने क्षेमः । योगक्षेमसाधारणं प्रागभावस्य साध्यत्वं वक्तव्यमेतदर्थो व्यतिरेकेत्यादि..... १४ . B omits the reading between +.... १५ B सत्ता. १६. B फलस्यास. For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy