________________
तर्कतरङ्गिणी तत्र कामनाविषयतावच्छेदकत्वाभावात् । अत्र तु विघ्नध्वंसस्य कामनाविषयतावच्छेदकत्वात् तदंशे वेदोऽवश्यं कल्पनीयः । तस्माद्विजातीयविघ्नध्वंसप्रयुक्तसमाप्ति प्रति नतित्वादिना कारणत्वम् ।
अयमर्थः 'नतित्वकारणतावच्छेदकं विजातीयविघ्नध्वंसप्रयुक्त समाप्तिकार्यतावच्छेदकं प्रयुक्तत्वं "स्वरूपसम्बन्धविशेषः कार्यतावच्छेदकः । तेन सम्बन्धेन वा तादृशध्वंसवत्त्वं कार्यतावच्छेदकम् । वैजात्यं वैलक्षण्यम् । तत्तु नतित्वावच्छिननाश्यतावच्छेदको जातिविशेषः उपाधिविशेषो वेति ।
"स्यादेतत् । स्वप्रयोजकीभूतविघ्नध्वंसफलकनतिमत्त्वसम्बन्धेन समाप्तित्वं वा कार्यतावच्छेदकं, नतित्वादिकं कारणतावच्छेदकम् । प्रयोजकत्त्वं तु "कारणत्ववत् स्वरूपसम्बन्धविशेषः अतिप्रसक्तिस्तु कारणतावच्छेदकसम्बन्धेनान्वयव्यतिरेकवशानिराकरणीया । व्यभिचारसन्देहेऽप्यनेन रूपेण वेदेन कारणत्वबोधनान्न प्रवृत्त्यनुपपत्तिः ।
तस्मात् समाप्तिरेव फलमित्युदयनाचार्याः ।
'अत्राचार्याणामयमाशय :- समाप्ति प्रत्येव मङ्गलस्य विघ्नध्वंसद्वारा १"कारणत्वम् । मङ्गलं भवति कारणम्, विघ्नध्वंसोऽवान्तव्यापारः, समाप्तिं फलं-निर्विघ्नसमाप्यतामिति । अनया कामनया शिष्टानां मङ्गले प्रवृत्तिदर्शनात् । तथैव वेदोऽपि कल्पनीय इति । (III) उदयनाचार्यमते मणिकृदुक्तं दूषणम् ।
इदानीमाचार्यमते १२मणिकदुक्तं दूषणं प्रकाश्यते । १२शिष्टाचारमूलक श्रुत्यनुमाने लाघवादावश्यकत्वाच्च विघ्नध्वंसकामो नतिमाचरेदित्येव श्रुतिकल्पनात् । न तु निर्विघ्नसमाप्तिकामो १५नतिमाचरेदित्यादिकां, गौरवात् व्यभिचाराच्च । न च विघ्नध्वंसेऽपि गङ्गास्नानादिना सम्भवादव्यभिचार इति वाच्यम् । नतिनाश्यजातीयविघ्ननाशं प्रति १६नतित्वेन कारणत्वात् । एवं स्तुतिनाश्यजातीयविघ्ननाशं प्रति स्तुतित्वेनैव कारणत्वं बोध्यम् । तथा च विशेषतयैव कार्यकारणभावकल्पनान्नव्यभिचारगन्धोऽपि । न चान्वयव्यतिरेको कारणत्वस्य ग्राहकौ । यथा मङ्गलसत्त्वे समाप्तिसत्त्वं, मङ्गलाभावे समाप्त्यभाव इति वाच्यष्टा लोकापगतकारणे नान्यथासिद्धेः ।१८
१. B omits अवश्यं. २. A reads here this footnote नतिनाश्यजाति...नतित्वादिना... गङ्गास्नानादिजन्यविघ्नध्वंसत्वादिना व्यभिचारः । ३. B समाप्तित्वं. ४. B च रूप. ५. B अन्यदेतत्. ६. B स्वर्गप्रयो. ७. B कारणतात्ववत्. ८. B तत्राचा. ९. B विघ्नविध्वंस. १०. B करणत्वम् ११. Bom its अपि. १२. चिन्तामणिकृतगङ्गेश:. १३. A reads here a broken footnote. १४. B श्रुति तत्कल्पनात् । १५. B मङ्गलमा. १६. B नतित्वे कार. १७. B omits वाच्यम्. १८. B सिद्धेश्चेति वाच्यम् मङ्गला...चेपि (!) समाप्ति...
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org