SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥ तर्कतरङ्गिणी ॥ ॐ गोस्वामिनं नमस्कृत्य सर्वविघ्नतमोपहम् । गोवर्धनकृता टीका स्पष्टा व्याख्यायते मया ॥१॥ 'वागीशपदद्वन्द्वनखचन्द्रमरीचयः । पान्तु वो भवकान्तारयातायातक्रमच्छिदः ॥२॥ इह खलु ग्रन्थारम्भे विशिष्टशिष्टाचारानुमितश्रुतिबोधि निर्विघ्नपरिसमाप्तिकर्तव्यताकं तत्परिसमाप्तिकामा मङ्गलमाचरन्ति यत्तति अत्र मङ्गलं गुरुनामग्रहणमेव वस्तुनिर्देशात्मकम् । [१] ॥ मङ्गलवादः ॥ (1) मङ्गलस्य फले मतद्वैविध्यम् । __ अत्र मङ्गलस्य कारणता विचार्यते । वेदबोधिततत्कामकर्तव्यताके मङ्गले तत्कामानां शिष्टानामाचारात् स्वर्गकामकर्तव्यताकत्वेन वेदबोधिताश्चामेधादौ स्वर्गकामाचारात्५ कालान्तरसमाप्तेविना' किञ्चिद् द्वारमनुपपन्नायाः परिशेषेणावश्यकत्वाच्च विघ्नध्वंसद्वारकत्वेन तस्यावेदने फलत्वबोधनात् । (II) उदयनाचार्यमतम् । न च विघ्नध्वंसस्य द्वारकत्वेन कल्पनीयत्वा दर्थादेवायास्यतीत्यर्थः, तदंशे किमर्थं वेदः कल्पनीय इति वाच्यम् । कामनाविषयतावच्छेदकावच्छिन्नसाधनत्वात् मङ्गले शिष्टानामाचारदर्शनात् । 'कामना' शब्देनेच्छा तद्विषयतावच्छदेको भवति विघ्नध्वंसः तदवच्छिन्नं तद्विशिष्टमः यथा निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदित्यत्र विघ्नध्वंस: कामनावच्छेदको वृत्तः । तथा च तद्विशिष्टस्यैव तदंशे वेदः कल्पनीयः । अपि च बाधपरम्पराशङ्कानिवृत्यर्थं तथैव वेदकल्पनात् । कामनाविषयता यथा समाप्तौ तथा विघ्नध्वंसेऽपि समाप्तिरेव फलम् । न चैवमदृष्टादौ द्वारे वेद: कल्पनीय इति वाच्यम् । १. There is a lacuna here in A. २. B पार्श्वनाथ. ३. B नरका ४. B reverses the order of the lines of this verse. ५. B आचारवत्. ६. B कालान्तरीय । ७. Footnote in A समाप्तिकामा मङ्गलमाचरेदिति रूपो वेद: कल्पनीयः । किंवेति-विघ्नसमाप्तिकामो मङ्गलमाचरेदिति । ८. B द्वारत्वेन ९. B यत्वात्तदंशे १०. B शिष्टः. ११. B omits वृत्तः. १२. B ग्रन्थकारपराशङ्का The reading ग्रन्थप्रकार is out of context here. ___ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy