________________
२४६
तर्कतरङ्गिणी प्रतिवादिना-सभ्यैश्चापि-न ज्ञायते-तद् दुर्बोधं यथा स्वशास्त्रीयन्यायपरिभाषादि यदि वेदान्तवादिना न ज्ञायते, तदा अविज्ञातार्थरूपं वादिनो निग्रहस्थानं भवति । (६) अर्थान्तरम् ।
अर्थान्तरं लक्षयति-प्रकृतेति-प्रकृते विवक्षितेऽर्थे यस्योपयोग:नास्ति तस्य यदि प्रयोगः क्रियते तदा वादिनोऽर्थान्तरम् । यथा वादिना शब्दस्य नित्यत्वे साधनीये प्रतिवादिनोक्तं शब्दः समवायसम्बन्धेनाकाशे तिष्ठतीत्यनुपयुक्ते एवेत्यर्थान्तरतारूपं निग्रहस्थानं प्रतिवादिनो जातमिति भावः । (७) अपार्थकम् ।
अपार्थकं लक्षयति-अनन्वितमिति येन सममन्वयो न सम्भवति तदनन्वितमपार्थकमेव । यथा चैत्रेण ओदनं पच्यते इत्यत्र द्वितीयाऽनन्विता भवति अपार्थकता वक्तुरिति भावः । (८) उपसंहारः ।
उपसंहरति-तदेतदिति वादे तत्त्वबुभुत्सारूपो एतन्निग्रहस्थानषटकस्य प्रयोगो न भवति । विजिगीषाभावात् । एतेन घटकेन हि परस्याप्रतिभा भवति । स्वस्य च जय इति । तत्त्वबुभुत्सारूपे वादे एतेषामुपयोगो नास्ति । यद्यपीति तथा च यत्र वादिना योऽर्थोऽभिहितः', तत्रानुक्तत्वभ्रमात्यथा मयाऽभावर्थो नोक्त इति हानिसन्यासौ-प्रतिज्ञाहानिप्रतिजासन्यासौ सम्भवत एव ।। (९) अन्यनिग्रहस्थानविचारः ।
एवमन्येऽपि सम्भवन्ति । यथा वस्तुगत्या यदि अवाचकमस्ति तत्र वादिना वाचकभ्रमो जातः । तत्रावाचकत्वमपि निग्रहस्थानं भवति । अथानुपयुक्तेषु वस्तुगत्या 'यत्प्रत्यक्षं प्रकृतेऽनुपयोगि भवति, तत्रोपयुक्तत्वभ्रमात्प्रयोगं निग्रहस्थानम् । एवमस्फुटयर्थत्वभ्रमात् वस्तुगत्या यद्भवति स्फुटं तत्रैतस्यास्फुटत्वभ्रमो जातः । तत्र तन्निग्रहस्थानमेवमस्तु-वस्तुगत्या यद्भवत्यन्वितं तत्र चैतस्यानन्वित भ्रमो जातस्तदैतस्य निग्रहस्थानम् । इत्यनयारीत्याऽन्यान्यपि निग्रहस्थानानि जल्पे सम्भवन्ति परं वादे तेषामनुपयोग इति । (१०) कथातात्पर्यम् ।
कथातात्पर्यमाह-अनुद्भाव्यमिति -यथा द्वयणुकस्य अनित्यत्वे वादिभ्यां विचार्यमाणे एकतरेण वादिनोक्तं 'द्वयणुकमनित्यम्, अवयवित्वात्, घटवत्' इत्यत्र यद्यप्यत्र प्रतिज्ञा द्वयणुकमनित्यमित्यत्र प्रतिज्ञान्तरमपि सम्भवति हेत्वन्तरमपि सम्भवति यथा 'द्वयणुकं विनाशि, १. B ऽर्थ उक्तः. २. यत्प्रकृते.. ३. A उपयोगि. ४. B omits अस्तु.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org