________________
२४५
तर्कतरङ्गिणी
__ क्रमेणाधिक्यं दर्शयति-शास्त्रान्तरे यथा प्रतिज्ञाहानिरित्यादि-एतत् षटकं पूर्वोक्ताष्टके न पतितं भवति । यतः कारणात् वादे प्रारब्धे वादिभ्यामेषां निग्रहस्थानानामर्थात् वादिनोरेव शक्तिनिगूहनंशक्तिभ्रंश-एतत्प्रयोगे सति भवति । तत एतेषूक्तेषु तत्त्वप्रतिपत्तिज्ञानम्, तस्य व्याघात एवैकतरस्य स्यात्। तथा चायमर्थ:-तत्त्वबुभुत्सारूपे वादे यद्येषामपि प्रयोगः क्रियते तदा तत्त्वव्याघात एव । 'एषां च प्रयोगो विजिगीषारूपे एव वादे तेनाष्टावैतत् वादे तत्त्वबुभुत्सारूपे इत्युक्तमिति न दोषः इति भावः। (२) प्रतिज्ञाहानिपञ्चकम् ।
प्रतिज्ञाहानि लक्षयति-स्वीकृतेति पक्षादीनां प्रत्येकं परित्यागात्पञ्चधा भवति । यघटत्र इति शब्दस्यानित्यत्वं प्रत्यक्षगुणत्वेन साध्यते । तत्र प्रतिवादिना मीमांसकेन प्रतिज्ञाबाधेन दूषितेऽनित्यत्वे तदनन्तरमनित्यवादिनोक्तं तर्हि घटोऽनित्यो भवति । [१]पक्षपरित्यागात् पक्षरूपप्रतिज्ञाहानिर्जाता । पुनस्तत्रैवानुमाने तेनैव प्रतिज्ञाबाधेन नित्य एव शब्द इत्यनित्यत्वरूपसाध्यपरित्यागे द्वितीया । (२) । शब्दस्येति यथा शब्दोऽनित्यः, प्रत्यक्षगुणत्वात्, घटवदित्यनुमानेन शब्देनानित्यत्वं साध्यते, तदा प्रतिवादिना भाट्टेन शब्दद्रव्यवादिना हेतौ स्वरूपासिद्धिरूपं दूषणं दत्तं 'गुणत्वाभावत्वेन । तदनन्तरमनित्यत्ववादिना कृतकत्वादिति हेतुप्रयोगकृते हेतुपरित्याग एव तृतीया प्रतिज्ञाहानिः । (३) । चतुर्थामाह-घटस्येति पूर्वानुमाने घटो द्रव्यं भवतीति कृत्वा तत्र हेतुत्वेनाभिमतगुणत्वाभावात् दृष्टान्तं न सम्भवतीति भाट्टेन दूषणे दत्ते वादिना यदा रूपवदिति दृष्टान्तः क्रियते तदा दृष्टान्तहानिरूपा प्रतिज्ञाहानि भवति ।
एवमिति यथा पर्वतो वह्निमान्, प्रमेयधूमादिति व्यर्थविशेषणतया, विशेषणत्यागे विशेषहानि निग्रहस्थानमिति । (३) प्रतिज्ञासन्यासम् ।
प्रतिज्ञासन्यासरूपं द्वितीयं लक्षयति-उक्तापलाप सुबोध एव प्रान्तभेदे । तथा च स्वीयतयेति - यदा मनसा वादिना शब्दो प्रयोगान्तरमेव विचार्यते, इतः परं वादिनिर्वृत्ति र्भवतु-इत्येवं स्तेनवत् चौरवत् प्रतिज्ञानिवृत्तिर्वाञ्छति । (४) निरर्थकम् ।
निरर्थकं लक्षयति-अवाचकेति तथा च लिङ्गानुशासने शब्दस्य पुंस्त्वादत्रावाचकत्वम् । (५) अविज्ञातार्थम् ।
अविज्ञातार्थं लक्षयति-यदि वादिनाऽभिहितमिति तथा च यद्वादिनाऽभिहतं तद् यदि
१. B तथा चैतेषां प्र.. २. B omits गुणत्वाभावत्वेन. ३. B -भेदे इति । ४. B यदि.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org