________________
तर्कतरङ्गिणी
२४७ जन्यत्वात्,' इत्यपि सम्भवति, तथापि तत्त्वबुभुत्सारूपे वादे एतदुभयं नोद्भाव्यमेव । अत्र स्वशक्तिनिगूहनार्थम्, अन्यथा स्वशक्तिनिगूहनमेव स्यादिति भावः । (११) वादेऽनुद्भाव्यनिग्रहस्थानसप्तकम् ।
पुनरपि वादेऽनुद्भाव्यनिग्रहस्थानदर्शनम् । यथा-अपूर्वप्रतिज्ञान्तरम् (१)हेत्वन्तरम् (२), अज्ञानम् (३), अप्रतिभा (८), विक्षेपो (५) मतानुज्ञा (६) पर्यनुयोज्यम् (७)-एतत्सप्तकं वादे उपेक्षणीयमेव । एतत्सप्तानां निग्रहस्थानानां क्रमेण व्याख्यां करोति. (१२) प्रतिज्ञान्तरम् ।
परोक्तेति परेण प्रतिज्ञावादिना उक्तं यद्दूषणं तदुद्धाराय पूर्वं यदुक्तो तत्र विशेषणं न दत्तमभूत् । तस्य पूर्वोक्तस्य साधनीयोउंशः तस्य प्रतिपादनं विशेषणदानेन प्रतिज्ञानन्तंर नाम निग्रहस्थानम् । (१)। अयं द्विविधो भवति-पक्षविशेषणपूरणादेकः (I), द्वितीयः साध्यविशेषणपूरणात् । (II) ।
तत्राह क्रमेणोदाहरणे-यथा शब्दो नित्यः, कार्यत्वादिति वादिना यदोक्तं तदा प्रतिवादिनाऽनित्यरूपे शब्दे अंशतः सिद्धसाधनं कृतम् । यथा तत्र सिद्धसाधनतावारणार्थं पक्षे वर्णात्मकत्वं विशेषणं दत्तम् । तथा चात्र पक्षविशेषणपुरणात् प्रतिज्ञान्तरं जातम् (I) । एवं द्वितीयं साध्यविशेषणपूरणात्-यथा विवादाध्यासितं पृथिव्यादिकं बुद्धिमत्पूर्वकमिति यदा वादिनोक्तं तदा प्रतिवादिनाऽन्यविषयकज्ञानवताऽस्मदादिना सिद्धसाधनं दत्तम् । तदा साध्ये बुद्धिविषयकत्वं विशेषणं देयम् । यथा विवादाध्यासितं पृथिव्यादिकं बुद्धिमज्जन्यमिति साध्यविशेषणपूरणता प्रतिज्ञान्तरम् (II)। (१३) हेत्वन्तरम् ।
चरमो (मं) द्वितीयः(यं) हेत्वन्तरनाम निग्रहस्थानं लक्षयति-अविशिष्टमिति' पूर्वहेतौ वादिना विशेषणं दत्तं नास्ति । यदा च प्रतिवादिना हेतोर्दूषणं दत्तम् तदुद्धाराय तत्र विशेषणान्तरं यदा दीयते तदा हेत्वन्तररूपं वादिनो निग्रहस्थानां पततीत्यर्थः ।
उदाहरति-शब्द इति तथा च सामान्ये प्रत्यक्षत्वं वर्तते; अनित्यत्वं च साध्यं नास्तीति व्यभिचारवारणाय जातिमत्त्वे सतीति विशेषणं देयम् । तथा च जातिमत्त्वे सति सामान्यप्रत्यक्षत्वं नास्तीति न व्यभिचार:-इत्यर्थः । १४) अज्ञानम् ।
अज्ञानं नाम निग्रहस्थानं लक्षयति-कथायामिति । कथायां वादे प्रकृत विषये-प्रकृतो यो १. B वादे उद्भाव्य.. २. B यथा. ३. B यदा. ४. B अविष्टमिति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org