________________
१२८
तर्कतरङ्गिणी अन्वयबोधजनकत्वं यद्यपि पदानां वर्तते तथापि पदनिष्ठान्वयरूपाऽऽकाङ्क्षा नास्ति । अन्वयस्य पदार्थधर्मत्वात् । तत पदेऽप्याकाङ्क्षा नास्तीत्याशङ्कार्थः । आकाश्तित्वादिति तथा च [पञ्च] फलादीनां तीरादावन्वितत्वेनसम्बनधत्वेन' पदार्थानामेव साकाक्षत्वम् । यदा पञ्चफलानि सन्तीत्यादि वाक्यमुच्चारितं तदाधाररूपतीरविषयिण्याकाङ्क्षा जायते-पञ्चफलानि कुत्र सन्तीतिरूपा ततोऽर्थानामेव साकाक्षत्वं सिद्धम् ।
'योग्यतयेति पदानि तु योग्यतयैव गतार्थानि । यानि हि पदानि योग्यानि भवन्ति तान्येवार्थबोधं जनयन्ति । न च तदर्थं साकाक्ष्यमपि पदानामपेक्ष्यते । निराकाङ्क्षाणि यानि पदानिअहो विमलमित्यादीनि, तेषां योग्यताभावादेव नार्थबोधकत्वम् । न चैवं सर्वत्र योग्यतयैव निर्वाहे किमर्थमाकाङ्क्षासत्ताऽपेक्ष्यते इति वाच्यम् । शाब्दबोधोऽन्वयव्यतिरेकाभ्यां तयोर्ज्ञानं कारणम् । परं साकाङ्क्षादिघटितलक्षणं न कर्तव्यम् । योग्यताघटितं चावश्यं कर्तव्यमेव । अयोग्येन शाब्दबोधाजननात् । एतावताग्रन्थेन पदानां साकाङ्क्षत्वं निराकृतम् ।
इदानीं पदानामपि साकाङ्क्षत्वव्युत्पादनार्थं प्रकारमाह-साकाङ्क्षति-साकाङ्क्षां ये पदार्थाः तत्प्रतिपादकं वाक्यमपि साकाङ्क्षमित्यर्थः । जिज्ञासेति केनचिदाकाङ्क्षालक्षणं कृतमस्ति । जिज्ञासा एवाकाङ्क्षा । तत्र दोषमाह आत्मेति तथा च जिज्ञासाया इच्छात्वेनात्मा एव साकाङ्क्षः स्यात् । इच्छाया आत्मधर्मत्वात् । नार्थाः न वा पदानि । इच्छाया पदार्थधर्माभावादित्यर्थः ।
ननु तर्हि अर्थेषु साकाङ्क्षत्वं किं नाम् ? आकाङ्क्षाया आत्ममात्रवृत्तित्वेन तेषु पदार्थेषु आकाङ्क्षाभावेन पदार्थाः साकाङ्क्षा इति व्यवहार एव न स्यात् । स्यादित्यत आह-स्वेतरेति स्वशब्देनैको घटादिपदार्थो ग्राह्यः । तदितरे च ये पदार्था या आनयादयः तेषां तद्विषयिणी या जिज्ञासा तदनुकूला उपस्थितिः । ज्ञानमिच्छाकारणीभूतं तद्विषयत्वमप्यर्थेषु वर्तते । अर्थानां ज्ञानव्यतिरेकेण जिज्ञासानुदयात् । तथा च जिज्ञासायाः पूर्वमर्थज्ञानमपेक्ष्यते एव । तद्धर्ममादायैवार्था साकाङ्क्षा इत्युच्यते ।
नन्वर्थानामेव यदि साकाङ्क्षत्वं तदा पदानि साकाङ्क्षाणीति व्यवहारः कथं जायते इत्यत आह लक्षणयेति । अत्र का लक्षणा' ? तां स्पष्टयति । - साकाङ्क्षार्थप्रतिपादकत्वरूपो यो सम्बन्धः पदेषु स एव लक्षणेत्यर्थः । इयमजहत्स्वाथैव पूर्वप्रकारेण नोक्तं मूलकारेण । अर्थानां मुख्यं साकाङ्क्षत्वं पदानां च लाक्षणिकम् । इदानीमग्रिमप्रकरणेनोच्यते । आत्मन एव मुख्यं साकाङ्क्षत्वं पदपदार्थानां तु तद्गौणमेवाह-सम्प्रतीति । १. B omits सम्बन्धत्वेन. २. B योग्यतेति. ३. B सतीत्यपेक्ष्यते. ४. B कथं न जा.. ५. B अथ लक्षणां स्पष्टयति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org