________________
तर्कतरङ्गिणी
१२७
मूलोद्धारं करोति । विद्यमानत्वमपि यदा कदाचिदपेक्षितम् । तथा च यो घट पूर्वं श्याम आसीत् तथाप्येतत्कालावच्छेदेन श्यामत्वं नास्ति, तथापि पूर्वकालावच्छेदेन श्यामत्वस्य वर्तमानत्वात् तत्प्रतिपादकं वाक्यं प्रमाणमेव । तत्प्रयोक्ता चाप्त एवेति समाहितम् ।
इदं दूषयति- इदानीमिति यः पूर्वं श्याम आसीत् तस्मिन्नेव घटे रक्तादशायामिदानीं श्याम इत्येतस्य वाक्यस्य प्रामाण्यापत्तिः । तत्प्रतिपाद्येऽर्थे श्यामत्वस्य यदाकदाचित्सत्त्वात् । तथा च यदा कदाचिदपि विद्यमानता नापेक्षिता ।
विद्यमानतार्थवादी शङ्कते न चेति यदनवच्छेदेन यत्कालावच्छेदेन स्वप्रतिपाद्यपदार्थसत्त्वं तत्कालावच्छेदेन तत्प्रमाणमेव पूर्वकालावच्छेदेन तत्प्रमाणमेव । पूर्वकालावच्छेदेन तत्प्रतिपादकं वाक्यं, प्रमाणम् । तथा च रक्ततादशायां श्यामोऽयमित्युच्चारितं वाक्यं एतत्कालावच्छेदेन यद्यपि प्रमाणं न भवति तथापि पूर्वकालावच्छेदेन तत्प्रमाणमेव । पूर्वकालावच्छेदेन श्यामत्वरूपपदार्थस्य सत्त्वात् । तथा च तत्पदार्थस्य पूर्वकालावच्छेदेन विद्यमानत्वात् प्रमाणमेव तद्वाक्यमिति शङ्कार्थः । एतावन्मात्रकृते दोषमाह-अवच्छेदमात्रेति तथा च यदि सम्बन्धविवक्षा न क्रियते तदा संयुक्तसमवायसम्बन्धेन गन्धस्य विद्यमानत्वेन समवायसम्बन्धतात्पर्येण यः शब्दप्रयोगो जले गन्ध इति कृतस्तस्यापि प्रामाण्यं स्याज्जले संयुक्तसमवायसम्बन्धेन गन्धस्य विद्यमानत्वात् । तथा च यत्कालावच्छेदेन जले गन्धो वर्तते तत्कालावच्छेदेनैव गन्धसत्त्वप्रतिपादकं वाक्यमुच्चारितं तदेव प्रमाणं स्यात् । न चेदं प्रमाणं समवायसम्बन्धाभिप्रायेण जले गन्ध इति वाक्यं यदोच्चारितं तत्प्रमाणमेवेति वाच्यम् । 'तत्र जले `समवायसम्बन्धेन गन्धाभावादिति । अतस्तद्वाक्यमप्रमाणम् । भवन्मते तु प्रमाणमेव स्यात् । भवता समवायसम्बन्धेन विवक्षा न कृता । अस्माभिस्तु पूर्वलक्षणे' सम्बन्धविवक्षा कृतैवास्ति । तथा जले गन्ध इति यदा समवायसम्बन्धाभिप्रायेण तदा वाक्यमुच्चारितं तदाऽप्रमाणम् । यदा तु संयुक्तसमवायसम्बन्धाभिप्रायेण तदा तु प्रमाणमेव । तथा च प्रकृतेन लक्षणेन ययो घटः पूर्वं श्यामः आसीत् तत्र रक्ततादशायामिदानीं श्यामोऽयमिति वाक्यम् । अथ च समवायसम्बन्धाभिप्रायेण 'जले गन्ध' इत्युच्चारितं वाक्यम्, अनयोरप्रामाण्येन प्रामाण्यलक्षणं वारितमित्यर्थः ।
एकत्रेति अग्निना सिञ्चेदिति वाक्ये योग्यता नास्ति । गौरव इत्यत्राकाङ्क्षाविरहात् । यद्यपि प्राधान्येन गवादीनामुपस्थितिरभेदरूपे च तथापि गवा भिन्नोऽश्वः इत्याद्यभेदबोधाभिप्रायेणोच्चारितं गौरश्व इति वाक्यमाकाङ्क्षाविरहादप्रमाणमित्यर्थः ।
(II) आकाङ्क्षाविचारः ।
इदानीमाकाङ्क्षा विचार्यते । नन्विति तथा च पदानां परस्परमन्वयो नास्ति ।
१. B अत्र. २. B समवायादिसम्बन्धविवक्षा गन्धा. ३. B पूर्वलक्षण सम्बन्ध ४. B omits the reading between तदा .. भिप्रायेण.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org