________________
१२६
तर्कतरङ्गिणी भ्रमाभावात् । 'तज्जन्यत्वं तत्र नास्तीति विसंवादिवाक्यं न प्रमाणमिति ।
नूनम् (ननु ?) आदौ लक्षणं शब्दस्य क्रियते प्रमाणशाब्दस्य वा ? यदि शब्दमात्रस्य तदा विसंवादो वाक्ये नास्ति, यदि प्रमाणमात्रस्य-प्रमाणस्य-लक्षणं तदा प्रत्यक्षादावव्याप्तिमिति चेत्-न । शब्दपदं काकाक्षगोलकन्यायेन देहलीदीपन्यायेन' चोभयत्र योजनीयमिति । तथा च प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः शाब्दप्रमाणमित्यर्थः । भूतान्तानुपादानेऽग्निना सिञ्चेदित्ययोग्यवाक्येऽतिव्याप्तिः स्यात् । अत उक्तं प्रयोगहेतुभूतेति । अग्निसेकरूपविषयकं यद्यपि तत्त्वज्ञानं न भवति तथापि वाक्यान्तरतत्त्वज्ञानमादायातिव्याप्ति ाह्या । यथा घटमानयेत्यत्र वाक्यार्थो भवति घटकर्मकानयनरूपं (पः) । तद्विषयक तत्त्वज्ञानम् ईश्वरे । तज्जन्यत्वमग्निना सिञ्चेदिति वाक्येऽपि तिष्ठति । तस्य कार्यमानं प्रति जनकत्वात् । ततोऽग्निना सिञ्चेदित्यत्र वाक्येऽप्यर्थतत्त्वज्ञानजन्यत्वमस्त्येवेति । तद्वारणाय भूतान्तम् । यद्यपि तद्दानेऽप्यतिव्याप्तिवारणं भवति ईश्वरज्ञानस्याप्ययोग्य प्रयोगहेतुभूतत्वात्, तथापि प्रयोगहेतुभूतार्थतत्त्वज्ञानत्वेन रूपेण "तन्निरुपितजन्यत्वं विवक्षितम् । ईश्वरज्ञानस्य तु न प्रयोगहेतुभूतार्थतत्त्वज्ञानत्वेन रूपेण जनकत्वं किन्त्वपरोक्षज्ञानत्वेन रूपेण । तथा चायोग्ये वाक्ये नातिव्याप्तिः ।
यदवच्छेदेनेति यथाश्रुतं तु टीकाकारेण दूषितं समाधानं करोति यदवच्छेदेनेति । यदवच्छेदेन यत्कालावच्छेदेन येन सम्बन्धेन संयोगादिसम्बन्धेन यत्र भूतलादौ सम्बन्धो घटादिः तद्विरुद्धरुम्बन्धेन संयोगादिना तेन कालावच्छेदेन तत्र भूतलादौ तदुपदेष्टा घटोपदेष्टाऽऽप्त इत्यर्थः ।
एतेनेति निरस्तमित्यन्तेनान्वयः । यथाश्रुतं मूलोक्तं दूषयति-यथाभूतत्वमिति यथाभूतस्य विद्यमानत्वे दोषमाह-तदेति यो घटः पूर्वं श्याम आसीत्तदनन्तरमग्निसंयोगादिना रक्तो 'घटो वृत्तः, तदनन्तरं "रक्ततादशायां पूर्वकालतात्पर्यकेण केनचिदाप्तेन यः श्यामोऽयमित्येतादृशः शब्दप्रयोगः कृतः, तस्याप्रामाण्यं स्यात् । श्यामत्वस्य विद्यमानत्वाभावाद्वर्तते इदं प्रमाणम् । पूर्वकालावच्छेदेनायं घटः श्यामो भवत्येव । तथा च श्यामत्वाविशिष्टे तद्घटप्रतिपादकं यद्वाक्यं तत्प्रमाणमेव । पूर्वकालावच्छेदेन येन सम्बन्धेन समवायसम्बनधेन यत्र घटे श्यामत्वं तत्र पूर्वकालावच्छेदेन श्यामत्वसम्बद्धं तद्विशिष्टम् । पूर्वकालविरुद्धो भवत्येतत्कालः । तदनवच्छेदेन समवायसम्बन्धेन श्यामत्वस्य तत्रोपदेष्टा यः पुरुषः स आप्त इत्यर्थः । इदानीं श्यामोऽयमित्याप्तवाक्यं प्रमाणमेव । श्यामत्वकालविरुद्धकालावच्छेदकस्येदानीमित्यस्य वर्तमानकालस्य भावात् । तथा च तत्र श्यामत्वं विद्यमानं नास्ति । तदैतादृशशब्दप्रयोक्ता मूलकारमतेऽनाप्तः स्यात् । अतोऽस्मदुक्तया कदाचिदिति १. B सः तज्ज.. २. B omits देहलीदीपन्यायेन. ३. B reads वा in place of चोभयत्र. ४. B भूतान्तोपाधिदाने. ५. A ज्ञानमीश्वरीयमिदं जन्यत्वम्. ६. A तत्का. ७. B तन्निरूपेण तन्त्रि. ८. B-स्तमत्यन्तेना.. ९. B omits घटो. १०. B रक्तदशायां.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org