________________
तर्कतरङ्गिणी
१२५ एवमासत्तिपदमपि व्यर्थमित्यत आह एवमिति-आसत्तिपदं चासन्नेऽतिव्याप्तिवारणार्थम् । यथा घटमानयेत्यत्र 'घ'-कारोच्चारणानन्तरं प्रहारनन्तरं 'ट'कारोच्चारणे शाब्दबोधो न भवति । आसत्तिविरहात् । तद्वारणार्थमासत्तिपदमवश्यं दातव्यमिति ग्रन्थकृदभिप्रायः । तदपि न । तत्रापि योग्यताविरहादेव न शाब्दबोधः । तत्र फलोपहितत्वे सति प्रकृतवाक्यार्थाबाधरूपा योग्यता नास्ति । अनेन विलम्बितेन वाक्येन शाब्दबोधरूपं फलमवश्यं जन्यत इति नास्ति । तथा च फलोपहितत्वाभावात् तत्र योग्यतैव नास्ति । तेन योग्यताभावादेव न तत्रातिव्याप्तिः । तथा च योग्यतापदेनैव नासन्नवाक्येऽतिव्याप्तिर्वारिता । व्यर्थं तत्रातिव्याप्तिवारणार्थमासत्तिपदमित्यर्थः ।
केनचित् प्रमाणशाब्दस्य लक्षणं कृतं पदसमूह इति । तदपि नेत्याह यत्रैकेति । यत्रैकपदस्यार्थद्वयं तयोः परस्परं यत्रान्वयबोधो वृत्तः, 'तत्प्रतिपादकं पदं प्रमाणं भवति, भवतां मते तत्र समूहाभावात् तत्प्रमाणं न स्यात् ।
___ यथाख्यातेति आख्यातपदार्थद्वयं भवति-कृतिरेकोऽपरो वर्तमानकालादिश्च । तथा च पचतीति वाक्ये लिङ्गोऽर्थद्वयम् । कृतिः, वर्तमानकालश्च । अनयोः परस्परमन्वयबोधात् । यथा वर्तमानकालस्य कृत्या सममन्वयः । यथा वर्तमानकालीना कृतिः, तदनन्तरं पाकानुकूलवर्तमानकालीनकृतिमान् देवदत्त इति शाब्दबोधः देवदत्तः पचतीत्यादिवाक्यस्थले । तथा च पदसमूहाः प्रमाणशाब्द इति लक्षणं न सम्यगित्यर्थ।
प्राक्तनं लक्षणं दूषयित्वा प्रमाणशाब्दस्य लक्षणान्तरं करोति-योग्यतावदिति योग्यताविशिष्टं शाब्दत्वमेव प्रमाणशाब्दस्य लक्षणम् । 'तेनायोग्येऽग्निना सिञ्चेदित्ययोग्येऽतिव्याप्तिर्न भवति । तत्र "योग्यताविरहात् । निराकाक्षे गौरव इत्यादिकानासन्ने च विलम्बोच्चारितेनातिव्याप्तिः । तत्र योग्यतायाः अभावात् । योग्यता तु फलोपहितत्वे सति प्रकृतवाक्यार्थ[I] बाधरूपा । तथा च निराकाङ्क्षेऽहो विमलमित्यादिवाक्ये फलोपहितपदेनातिव्याप्तिर्वारिता । अत्रासन्ने प्रकृते वाक्यार्थाबाधपदेनैवातिव्याप्तिर्वारिता । एकपदार्थावच्छेदके तु अपरपदार्थनिष्ठात्यन्ताभाव-प्रतियोगितानवच्छेदकरूपा योग्यतैव बोध्येति दिक् ।
मणिकारोऽप्याह-प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणमिति । अस्यार्थ:प्रयोगशब्देन शब्दोच्चारणं, तस्यं हेतुभूतं यदर्थतत्त्वज्ञानं पदार्थयथार्थ ज्ञानं, तज्जन्योपायः शब्दः प्रमाणशाब्द इत्यर्थः । अयं भावः-अर्थज्ञानव्यतिरेकेण शब्दोच्चारणं न सम्भवति । यद्यपि शुकबालादिवाक्यस्थलेऽर्थतत्त्वज्ञाना-भावेऽपि शाब्दः प्रयोगः सम्भवति तथापि तत्रेश्वरीयार्थतत्त्वज्ञानं ग्राह्यम् । विसंवादिवाक्ये शुकादिवाक्ये च तदाऽर्थ विषययीभूतमीश्वरस्यापि तत्त्वज्ञानं नास्ति । ईश्वरस्य १. B तत्र प्रति.. २. B तेनायोग्यता । अग्निना. ३. A -त्ययोगेऽति. ४. B omits the reading between योग्यताविरहात....अभावात् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org