________________
तर्कतरङ्गिणी
उक्त लक्षणे एव दूषणान्तरमाह आकाङ्क्षेति । आकाङ्क्षापदं च निराकाङ्क्ष वाक्येऽतिव्याप्तिवारणार्थं दत्तमस्ति । निराकाङ्क्षा तु अहो विमलं जलं, नद्यां कच्छे महिषश्चरतीति वाक्यम् । अत्र जलपदस्य नद्यां सममन्वयबोधो भवतीतीच्छायामुच्चारितमिदं वाक्यम् । नद्याः कच्छेन सममन्नवयबोधे जननीये कच्छपदं निराकाङ्क्षम् नदीपदस्य' जलेन सममन्वयस्य जातत्वात् । तथा चेदं वाक्यमन्वयानुभावकत्वान्निराकाङ्क्षम् । अनेन वाक्येन कच्छेन समं नद्या अन्वयबोधो न भवति । एतादृशवाक्यस्य प्रामाण्यं वारयितुं साकाङ्क्ष पदं दत्तम् ।
१२४
इदं विकल्प्य दूषयति-तदिति तत्साकाङ्क्ष्यं द्विविधं भवति । विसंवादीति विसंवादिवाक्ये उक्तरीत्या योग्यतापदेनैवातिव्याप्तिर्वारिता । द्वितीयमपि द्विविधम् शाब्दबोधे एकं स्वरूपयोग्यमपरं च तथाभूतं स्वरूपायोग्यम् । एतयोर्मध्येऽहो विमलमित्यादिवाक्यं नद्यां जलेन सममन्वयतात्पर्येणोक्तमपि कच्छेनापि सममन्वयसम्भवात् स्वरूपयोग्यमेव । तथा च किमर्थमिदं वारणीयम् ? एतद्वारणार्थं साकाङ्क्षपदं न दातव्यमेव । एतद् द्वितीयं तु स्वरूपायोग्यं निराकाङ्क्षम् । तत्गौरव पुरुषो हस्तीति वाक्यं निराकाङ्क्षम् । गोपदस्याश्वेन सममाकाङ्क्षा नास्ति । एवमन्यस्यान्येन सममाकाङ्क्षा नास्ति । अत्रातिव्याप्तिर्योग्यतापदेनैव वारिता ।
योग्यतामाह-अर्थाबाधस्येति प्रकृतवाक्यार्थाबाधो योग्यता । अत्र तु प्रकृतवाक्यार्थ एव नास्ति । गोरवेन समं संसर्गस्य प्रकृतवाक्यावाच्यत्वात् । गोरश्वेन समं यः संसर्गः सोऽनेन वाक्येन न प्रतिपाद्यते । तथा चात्र प्रकृतवाक्यार्थाबाधरूपा योग्यता नास्ति । तद्विरहादेव । एतन्निराकाङ्क्षावाक्येऽ व्याप्तिवारणं योग्यतापदेनैव 'जातम् । किमर्थं "तद्वारणार्थं साकाङ्क्षपदम् ?
एतदेवाह - स्वरूपायोग्ये इति गौरश्व इत्यादिवाक्यं स्वरूपायोग्यम् । यतो गोरवेन सममभेदान्वयो कदाचिदपि न भवति । अत इदं स्वरूपायोग्यम् । स्वरूपयोग्यं च पूर्वमुक्तमहोविमलमित्यादि । अतः साकाङ्क्षपदं व्यर्थम् । योग्यतापदेनैव निराकाङ्क्षवारणात् ।
ननु निराकाङ्क्ष यद्वाक्यं भवति तत्र योग्यं वाऽयोग्यं वेति नोच्यते, किन्तु येन वाक्येनावश्यं फलं शाब्दबोधरूपं जन्यते तदेवात्र प्रमाणशाब्दस्य लक्ष्यम्, तथा चाहो विमलजलमित्यादि वाक्यं कच्छेन समं नद्यां बोधाजननान्न लक्ष्यम् । पूर्वं तूक्तं स्वरूपयोग्यत्वादिदमपि लक्ष्यम्, तथा चाहो विमलमित्यादि वाक्यं फलोपहितं न भवतीति न लक्ष्यम्, तथैव तद्वारणार्थं अवश्यं साकाङ्क्षपदं दातव्यमिति चेत्, न । योग्यताकुक्षौ फलोपधानविशेषणमपि देयम् । तथा च फलोपधानत्वे सति प्रकृतवाक्यार्थाबाधो योग्यता । सत्यन्तमहो विमलमित्यादि स्वरूपयोग्यनिराकाङ्क्षवाक्येऽतिव्याप्तिवारणार्थम् । तथा च योग्यतापदेनैव निराकाङ्क्षवाक्येऽतिव्याप्तिर्वारिता । व्यर्थं साकाङ्क्षपदम् । १. B भवत्विती. २. B पदेन. ३. B omits एतद् ४. B omits जातम्. ५. Bomits तद्वारणार्थं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org