________________
तर्कतरङ्गिणी
१२३ अग्रिमेति-आकाशा इत्यादिना ग्रन्थेन यदने उक्तं तदनुसारेणैव लक्षणं प्रमाण]शब्दस्यैतादृशं पर्यवसन्नम् । यथाऽऽसेत्यादिः । आप्तजन्यत्वं 'पदानां विशेषणम् । तत आप्तजन्यानि यान्याकाशादिपदानि, तेषां समूहः प्रमाणशब्द इति । आसजन्येति विशेषणम् प्रमाणानाप्त-वाक्येऽतिव्याप्तिवारणार्थम् । आकांक्षादिमत्पदं च निराकांक्षादिवाक्येऽति व्यासिवारणार्थम् समूहपदं चैकपदेऽतिव्याप्तिवारणार्थम् । एकपदेन वाक्यार्थो जनयितुं न शक्यते । यथा घटमानयेत्युक्ते वाक्यार्थो भवति घटकर्मकानय[न]क्रियारूप: । अयं तु घट इति पदेन बोधयितुं न शक्यते । एकपदेऽऽकाङ्क्षादि विरहात् ।
___ इदं लक्षणं विकल्प्य दूषणार्थं भूमिकां रचयति-तत्राप्तेति 'तत्राग्रिमप्रकारेणाप्तलक्षणं ग्रन्थकृता कृतम् । यथाऽनुभूतार्थोपदेष्टा पुरुष आप्त इति । तत्रोपदेष्टत्वं नाम यदि पदप्रयोक्तृत्वं पदोच्चारकत्वं तदा संवादिशुकबालादिवाक्येऽव्याप्तिर्भवति । तत्र वस्तुगत्या यत्र भूतले “घटो वर्तते तत्रैव भूतले शुकादिनोक्तं घटवद्भूतलमिति वाक्यं संवादिवाक्यम् । यद्वाक्यं तदर्थविषयकमुच्चार्यते तदर्थसत्त्वे संवादः । तत इदं वाक्यं भवति प्रमाणम् । यद्यपि शुकस्य यथानुभूतार्थोपदेष्टत्वं न सम्भवति तथाप्येतादृशोपदेष्टा ईश्वर एव । तेन संवादिशुकबालादिवाक्यस्थलेऽऽप्त ईश्वर एव, यद्याप्तलक्षणं 'यथाभूतार्थस्योपदेष्टत्वम् ।
अत्र लक्षणे यो वर्तते उपदेष्टुत्वभागः, तदर्थः शुकबालादिज्ञानार्थवत्त्वे सति ताल्वोष्ठपुटव्यापारे शब्दकर्तृकत्वम् । तदा शुकबालादिवाक्येऽव्याप्तिरेव । ईश्वरस्य ताल्वोष्ठपुटव्यापाराभावात्प्रयोक्तृत्वं न सम्भवति । अथेति यदि प्रयोक्तृत्वं नाम शब्दजनकत्वं तदा दूषणमाह-वैयर्थ्यमिति आप्तपदं व्यर्थम् । आप्तपदं तु विसंवाद्यनाप्तवाक्येऽति व्याप्तिवारणार्थं दत्तमस्ति । तत्रातिव्याप्तिस्तु "योग्यतापदेनैव वारिता । विसंवादि वाक्यं तु घयभाववति भूतले केनचिदुच्चारितं घटवद् भूतलमिति प्रतीत्यप्रमाणं वाक्यं भवति। एतद्वाक्यार्थो घटसंसर्गरूप: 'तत्पदाभावादप्रमाणम् । एतद्वारणं च योग्यतापदेनैव जातम् । योग्यता भवति प्रकृतवाक्यार्थबोधरूपा । प्रकृतवाक्यं घटवद् भूतलमिति । तदर्थो भवति घटभूतलसंसर्गरूपस्तस्य बाधान योग्यता । अत एव मिश्रादिभिः योग्यतालक्षणं कृतम् ।-एक पदार्थेऽपरपदार्थः निष्ठात्यन्ताभावप्रतियोगित्वम् । एतदर्थो यथा-यत्र भूतले वस्तुगत्या घो वर्तते तत्रैव भूतले घटसत्त्वाभिप्रायेण वाक्यमुच्चरितं घटवद् भूतलमिति । अत्रैकपदार्थो भवति घटः, तत्र घटेऽपरपदार्थो भवति भूतलम् । तन्निष्ठःतत्र वर्तमानो योऽत्यन्ताभावो पटदीनां तदप्रतियोगित्वं घटस्यास्तीति । इदं योग्यतालक्षणं विसंवादिवाक्यस्थले नास्ति । योग्यताभावादेवातिव्याप्तिन भवतीति व्यर्थमाप्तपदं विसंवादिवाक्येऽतिव्याप्तिवारणार्थम् । योग्यतापदेनैवातिव्याप्तिवारणात् । १. B पदविशेषणम् । २. B तं तं प्रत्यग्रिम-. ३. B पदप्रयोजकत्वं. ४. B omits घये. ५. B यथा भूतलेऽर्थस्यो.. ६. A ऽतिवारणार्थं. ७. A योग्यपदेनैव. ८. B मिति तत्प्रमा.. ९. A तदभावाद. १०. B घटेऽपदार्थो.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org