________________
१२२
तर्कतरङ्गिणी सङ्गतिरर्थरूपा, तस्या या संज्ञा तत्प्रतिपादकं पदम्, तेन समभिव्याहृतं-सहोच्चारितं यद्वाक्यम्, तस्य योऽर्थः, तस्यार्थस्य संज्ञिनि संज्ञाप्रतिपाद्येऽर्थे यदनुसन्धानं ज्ञानं तदुपमानमित्यर्थः । वर्तते चेदं लक्षणं सादृश्यविशिष्टपिण्डज्ञाने । यथा 'गोसदृशो गवय' इत्यत्रानवगता सङ्गातिर्भवति गवयरूपेऽर्थे । तस्य या संज्ञा गवय इति पदरूपा, तत्सहकृतं यद्वाक्यं-तेन सहोच्चारितं यद्वाक्यं गोसदृशो गवय इतिरूपम्, तस्य योऽर्थो वाच्यो गवयरूपः, तस्य यत्संज्ञिनि गवये यदनुसन्धानं ज्ञानम्, तदुपमानम् ।
उपमानमिति अयं गवयपद वाच्य इति सङ्केतग्रह इत्येवं वैधोपमानेऽपि-यथा प्रलम्बौष्ठः कण्टकाशीत्यत्रानवगतोऽर्थः भवत्युष्ट्ररूपः । तस्य या संज्ञा उष्ट्रपदरूपा तत्समभिव्याहतं यद्वाक्यं प्रलम्बौष्टः कण्टकाशी उष्ट्रः इति वाक्यं तस्य योऽर्थः तस्य संज्ञिनि उष्ट्रेऽनुसन्धानं यज्ज्ञानमयमुष्ट्रपदवाच्य इतिरूपं तद्वैधोपमानमित्यर्थः ।
__अनष्टेति संस्कारनाशस्तु यदि कालेन रोगेण वा जातस्तदोपमानं न भवतीति भावः । यथा विद्याविषयकः संस्कारोऽभ्यासाभावविशिष्टसंस्कारेण नाश्यते तद्वत् जन्मान्तरानुभूत विषयकसंस्कारनाशात् । यथाश्रुतमिति यदि संस्कारमात्रं कारणम्, तदा ध्वस्तसंस्कारोऽपि स्मरणं जनयेत् । तद्द्वारा उपमितिरपि जन्यते इत्यर्थः ।
वैधोपमानं स्पष्टयति कीदृगित्यादि
[इति]-उपमानग्रन्थ व्याख्या ।
॥ शब्दप्रमाण ॥ (I) शब्दलक्षणम् ।
"प्रमाणशब्दस्य लक्षणमाह-आप्तवाक्यमिति आतेन पुरुषेण ताल्वोष्ठपुटव्यापारेण यदुच्चारितं वाक्यं तच्छब्दप्रमाणमित्यर्थः । अत्राप्तवाक्यं शब्द इति वाक्येन शब्दस्य वा लक्षणं क्रियते शब्दप्रमाणस्य वा लक्षणं क्रियते ? यदि आद्यः पक्षस्तादाऽनाप्तवाक्यस्यापि शब्दत्वात्, तदा वाक्ये ऽव्याप्तिः । तत्र प्रोच्चारित्वाभावात् । यदि द्वितीयः पक्षस्तदाऽत्र लक्षणे प्रमाणप्रतिपादकपदाभावात् प्रामाण्यं शब्दस्य केन पदेन बोधनीयम् ? तथा चात्र लक्षणे प्रमाणपदं देयमेव । तथा चाप्तवाक्यं "शब्दप्रमाणमित्यर्थः । १. B -रूपोऽर्थो. २. B गवयपद इति सङ्केत. ३. A यथा श्रुते इति; It is यथाश्रुति in त.भा.प्र. ४. गुणरत्न has used प्रमाणशब्द throughout in the discussion of this section. However शब्दप्रमाण could have been a better reading. ५. B omits अत्र. ६. B प्रमाप्रति. ७. B शब्दः प्रमाणमि..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org