________________
१२१
तर्कतरङ्गिणी
इदमेवातिदेशवाक्यम् । तज्ज्ञातव्यमित्यतिदेशवाचकम् । अनेन जनितो यो बोधस्तेन प्रष्टुरात्मनि गोसादृश्यविशिष्टगवयविषयकसंस्कारो जनितः । पुनः प्रष्टा कालान्तरे वनं गतः । तत्र गोसादृश्यविशिष्टो पिण्डो गवययरूपो जनितो दृष्टः । तदनन्तरमतिदेशवाक्यार्थस्य पूर्वं श्रुतस्य वाक्यस्य स्मरणं जातम्'गोसदृशो गवय' इति । तदनन्तरं पुरोवर्ति' पिण्डेन सममतिदेशवाकयार्थस्याभेदबुद्धिर्जाता । यथा गोसदृशो गवयभिन्नोऽयमिति । तदनन्तरमयमेव गवयपदवाच्य इत्युपमितिर्गवयपदशक्तिविषयिणी । तस्याः कारणमुपमानम् । पुरोवर्तिसादृश्यविशिष्टपिण्डज्ञानमुपमानं उपमितिरुक्तरूपा फलमिति न्यायपद्धतिः ।
अत्र दूषणद्वयमाह - नन्विति तथा चातिदेशवाक्यार्थस्मरणसहकृतमिति पदं गोपदं च लक्षणवाक्ये व्यर्थम् । सादृश्यविशिष्टपिण्डज्ञानमुपमानमित्येतावन्मात्रस्य चरितार्थत्वात् । गोपदे दत्ते उपमानान्तरेऽव्याप्तिश्च । यथा यत्रातिदेशवाक्ये 'चित्रकसदृशो व्याघ्रः' इत्य ेतिदेशवाक्ये गोपदाभावात् । तज्जन्यसंस्कारः, तेन कालान्तरे पुरोवर्तिचित्रकंसादृश्यविशिष्टव्याघ्ररूपपिण्डदर्शनानन्तरं जननीयं `यत्स्मरणं तद्विशिष्टं यत्पुरोवर्तिव्याघ्ररूपपिण्डज्ञानं तद्भवत्युपमानम्, तस्योपमितिकरणत्वात् । अत्रोपमा लक्षणमिदमव्याप्तम् । गोपदाभावात् । तत्रातिदेशेति व्यर्थम् । यथा "यदि अतिदेशेति पदमुपमानकुक्षौ दातव्यं तदाऽनुमितिकरणे परामर्शे व्याप्तिस्मरणसहकृतपरामर्शो ऽनुमान मित्येवानुमानस्यापि लक्षणं कर्तुं ५ युक्तम् । तत्र व्याप्तिज्ञानस्य कारणत्वेऽपि तत्पदं लक्षणे न दातव्यमेव, गौरवात् । तथा प्रकृतेऽतिदेशवाक्यार्थस्मरणं यद्युपमानेऽपेक्ष्यते तथापि न दातव्यमेव द्वारप्रतिपादकं वाक्यं लक्षणवाक्ये कुत्रापि निवेशितं न दृश्यते । तथा चेह सहकृतान्तभागो व्यर्थः ।
कण्टकमुद्धरति न चेति तथा च लक्षणमित्येव सादृशयविशिष्टपिण्डज्ञानम्, इदं दूषयतिवैधर्म्येति । यदि सादृश्यं प्रतिपिण्डविशिष्टज्ञानमुपमानमुपपद्यते तदा वैधर्म्यापमानेऽव्याप्तिः । यथा केन चिदुक्तं कीदृगुष्ट्र इति प्रश्नानन्तरं प्रलम्बौष्ठः कण्टकाशीति प्रत्युत्तरं दत्तम् । अत्र वाक्ये सादृश्यप्रतिपादकवाक्याभावात् वैधर्म्यापमानत्वम् । अनेन वाक्येन श्रोतुर्यज्ज्ञानं जातं तेन ज्ञानेना'त्मनि तद्विषयार्थकः संस्कारो जातः । तेन संस्कारेण प्रल्बौष्ठकण्टकाशित्वविशिष्टपिण्डदर्शनानन्तरं पूर्ववाक्यार्थस्मरणं जननीयम् । तद् द्वाराऽयमुष्ट्रपदवाच्य इत्युपमितिर्जायते । तत्कारणं भवतिप्रलम्बौष्ठकण्टकाशित्वविशिष्टपुरोवर्तिपिण्डज्ञानमुपमानम् । अत्र वैधर्म्यापमाने सादृश्यविशिष्टपिण्डज्ञानमिति लक्षणमव्याप्तमित्यर्थः ।
सादृश्यवैधर्म्यापमानसाधारण्यार्थं लक्षणान्तरं करोति-अनवगतेति अनवगता - अज्ञाता या
१. B - वर्तिनि २. B omits इति. ३. B तत्स्म ४. Bomits यदि ५. A युक्तं यद्युच्यते तत्र. ६. B - नात्मना ७. A omits तद्.
तर्क. - १६
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org