________________
१२०
तर्कतरङ्गिणी 'साध्याभावरूपनित्यत्वमनुमेयं तच्च द्वितीयानुमानेन व्योमैकगुणत्वरूपेणानुमितिसत्प्रतिपक्षोत्त्थापनं व्यर्थमेव स्यादिति न द्वितीयः ।
यदि व्यभिचारोन्नायकत्वेनोपाधेर्दूषकता, तदा दोषः । यथा धूमवान् वह्ने:'-इत्यत्रा!न्धन प्रभववह्निव्यभिचारेण धूमव्यभिचारो वह्निः साधनीयः । तदा यथा भवता साध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचार: साध्यते तथा साध्यव्याप्यके हेत्वव्यापकत्वेन हेतुना साध्याव्यापकत्वमुपाधिनिष्ठं साधनीयम् । यथा उपाधिः साध्याव्यापकः साध्यव्याप्याव्यापकत्वात्। यत्र यत्र साध्यव्याप्याव्यापकत्वं तिष्ठति तत्र तत्र साध्याव्यापकत्वं तिष्ठति। यथा 'वह्निमान् धूमात्' इत्यत्र साध्यव्याप्यो भवति धूमः, तद्व्यापकत्वं तिष्ठति पर्वतादौ । यथा यत्र[यत्र]वह्निव्याप्यो धूमस्तत्र तत्र पर्वतत्वं नास्ति, महानसे व्यभिचारात् । तस्य साध्याव्यापकत्वमपि तिष्ठति । एवं चोपाधावपि । 'धूमवान् वढे:'-इत्यत्रोपाधि र्भवत्या!न्धनप्रभववह्निः । तत्र धूमव्याप्यवह्निव्यापकत्वहेतुना धूमाव्यापकत्वं साधनीयम् । यथाऽऽर्दैन्धनप्रभवो वह्निः धूमव्यापक: धूमव्याप्यवह्नयव्यापकत्वात् । तथा चार्टेन्धनप्रभववह्नः साध्याव्यापकत्वेनोपाधिमत्त्वमेव स्यादिति । उपाधेस्तु साध्याव्यापकत्वनियमात् ।
नापि तृतीयः । यदि व्याप्तिविरहोन्नायकत्वेनोपाधेर्दूषकत्वं यथा वह्नि हेतु: धूमाव्याप्यः धूमाव्यापकार्टेन्धनप्रभववह्नयव्यापकत्वादिति व्याप्तिविरहोन्नायकत्वं दोषः । अत्र यथा धूमव्यापकाईन्धनप्रभववह्नयव्यापकत्वेन हेतुना धूमाव्यापकत्वं वह्नौ साधितं तथा वह्नयव्यापकत्वेन हेतुनाऽऽर्टेन्धनप्रभववल्यव्याप्यत्वमपि साधनीयम् । यथा धूम आर्टेन्धनप्रभववल्यव्याप्यः वयव्यापकत्वादित्यनुमानेनोपाध्यव्याप्यत्वं साध्यस्य धूमस्य साधयितुं शक्यते । तेन व्याप्तिविरहोन्नायकत्वेनोपाधेर्दूषकत्वं नास्ति ।
अत्र मणिकार: । सत्प्रतिपक्षोन्नायकत्वेनैव दूषकत्वम् । न च सत्प्रतिपक्षे सत्प्रतिपक्षान्तरं न स्यादिति वाच्यम् । सत्प्रतिपक्षेऽपि सत्प्रतिपक्षोपष्ठभकतया सत्प्रतिपक्षसम्भवे क्षति: न स्यादिति संक्षेपः।
॥ इत्यनुमानग्रन्थव्याख्या ॥
॥ उपमानम् ॥ अथोपमानग्रन्थव्याख्या । उपमानस्य लक्षणमाह अतिदेशेति अतिदेशवाक्यार्थस्य यत्स्मरणं तत्सहकृतं तद्द्वारा यत्गोसादृश्यविशिष्टपिण्डविषयकं ज्ञानं तदुपमानमित्यन्वयः । यथा केनचिन्नागरिकेण आरण्यकः पुरुषः पृष्टः ‘कीदृग् गवय' इति तदाऽऽरण्यकेनोक्तं 'गोसदृशो गवय' इति१. B - भावनित्य.. २. B तथा यदा यथा. ३. B -कत्व:. ४. B -न्धनसंयोगप्रभव. ५. B -व्याप्यहेतुना.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org