________________
तर्कतरङ्गिणी
११९ यथाऽयोगोलक:धूमाभाववत् (वान्), आर्दैन्धनप्रभववह्नयभावात् । यथा हृदः । तथा चान्धनप्रभववह्निव्यतिरेकेण धूमाभावः साधयितुं शक्य इति। धूमवान् वह्निरित्यत्राट्टैन्धनप्रभववह्निर्भवत्युपाधिः । केचित्तु यद्व्यतिरेकेण साध्यव्यभिचारः साधयितुं शक्यते स उपाधिः यथा 'धूमवान् वह्नः' इत्यत्र वह्निः धूमव्यभिचारी, आर्टेन्धनप्रभववह्निव्यभिचारित्वात् । यत्र यत्रार्दैन्धनप्रभववह्निव्यभिचारित्वं तिष्ठति, तत्र तत्र धूमव्यभिचारित्वम्, यथा हृदत्वे इति ।
पक्षेतरव्यभिचारेण साध्यव्यभिचारः साधयितुं न शक्यते । यथा धूमो वह्निव्यभिचारी, पर्वतेतरत्वव्यभिचारित्वादित्ययं हेतुर्व्यभिचारी । पर्वतेतरत्वं व्यभिचारित्वं वर्तते । पर्वतीयवह्नौ पर्वतेतरव्यभिचारा(रि)त्वं नाम पर्वतेतरात्यन्ताभाववद्वृत्तित्वम् । इदं च पर्वतीयवह्नौ तिष्ठति । पर्वतेतरात्यन्ताभाववान् भवति पर्वतः । तदृत्तित्वं पर्वतीयवह्नौ तिष्ठतीति । तत्र वह्निव्यभिचारित्वं नास्तीति न सः उपाधिः । बाधोनीतः । पक्षेतरोऽप्युपाधिरेव । तथाहि 'वह्निरनुष्णः कृतकत्वाद्' इत्यत्रोपाधिर्भवति वहीतरत्वम् । तथा च वहीतरत्वव्यतिरेकानुष्णत्वाभावः साधयितुं शक्यते । यथा 'वह्निरुष्णः वह्नीतरत्वाभावात् । यत्र यत्र वह्नीतरत्वाभावः तत्र तत्रोष्णत्वम्, यथा वह्राविति । वहीतरत्वव्यतिरेकेणानुष्णत्वाभावः उष्णत्वरूपः साधयितुं शक्यते । एवं वहीतरत्वव्यभिचारेणानुष्णत्वव्यभिचारः साधयितुं शक्यते । यथा कृतकत्वहेतुरनुष्णत्वव्यभिचारी वहीतरत्वव्यभिचारित्वात्। यत्र यत्र वहीतरत्वव्यभिचारित्वं तत्र तत्रानुष्णत्वव्यभिचारित्वं वर्तते । यथा वह्नित्वे इति । उपाधिव्यभिचारेण साध्यव्यभिचारः साधयितुं शक्यते इति बाधोनीतः पक्षेतरत्वमप्युपाधिर्भवतीति दिक् ।
उपाधेर्दूषकताबीजकत्वं सत्प्रतिपक्षोत्थापकत्वं व्यभिचारोन्नायकत्वं व्याप्तिविरहोन्नायकं वा? नाद्यः, सत्प्रतिपक्षे उपाध्युद्भासनं न स्यात् । तथाहि यधुपाधिना सत्प्रतिपक्षः कर्तव्यः, यथामूलानुमानं 'शब्दोऽनित्यः, कृतकत्वात् ।' द्वितीयः सत्प्रतिपक्ष: यथा 'शब्दो नित्यः, व्योमैकगुणत्वात्', इत्यत्र स्थापनानुमाने ध्वंसवत्त्वमुपाधिः । भवति चायं साध्यव्यापकत्वे सति साधनाव्यापकः । यथा यत्र यत्रानित्यत्वं तत्र तत्र ध्वंसत्वम् । यत्र यत्र कृतकत्वं तत्र तत्र ध्वंसत्वं नास्ति, ध्वंसे व्यभिचारात् । अत्रानुमानेऽयमुपाधिः । अनेनोपाधिना यदि सत्प्रतिपक्ष एव कर्तव्यः तदोपाधेः 'पूर्वमेव सत्प्रतिपक्षस्य विद्यमानत्वात्, सत्प्रतिपक्षान्तरोत्थापने व्यर्थता स्यात् ।
अयमत्र भावः-मूलानुमानं भवति 'शब्दोऽनित्यः कृतकत्वाद्'-इति, एतस्योपरि प्रतिपक्षो भवति नित्यत्वसाधकमनुमान्-यथा 'शब्दो नित्यः व्योमैकगुणत्वात्' इति द्वितीयम् । अनयमोर्मध्ये प्रथमानुमानं दुष्टम् । तत्रोपाधेविद्यमानत्वात् । उपाधिरुक्त एव । यदि उपाधिना सत्प्रतिपक्षः कर्तव्य:तथाहि 'शब्दो नित्यः, ध्वंसत्वाभावात्' इति । इदमप्युपाध्यभावेन शब्दे "यदि १. B पूर्वमेव स्यात्, पक्षस्य विद्य.. २. B एतस्य विपक्षो भ.. ३. B वर्तमानत्वात् । ४. B omits यदि.
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org