________________
११८
तर्कतरङ्गिणी यत्किञ्चित् साध्यव्यापकत्वं विवक्ष्यते-इत्येव मनसि कृत्वाऽऽह-न चेति ।
तथा च यत्किञ्चित् साध्यव्यापकत्वे सति साधनाव्यापकत्वं यदि विवक्ष्यते तदा वह्निमान धूमात्-इत्यत्र सद्धेतावपि व्यजनवत्त्वमुपाधिः स्यादित्याशङ्कार्थः । अत्रातिव्याप्तिवारणार्थं साधनावच्छिन्नादि साधारण्यार्थं च विवक्षां करोति-यद्धर्मेति यद्धर्मावच्छिन्नस्य साध्यस्य यो व्यापकः स एव धर्मः, तद्धर्मावच्छिन्नसाधनस्य यदव्यापक: स धर्मः 'तद्धतावुपाधिः । यथा 'स: श्यामः, मैत्रीतनयत्वात्' इत्यत्र शाकपाकजत्वम्, यथा यत्पदेन मैत्रीतनयत्वं तथा च यत्र यत्र मैत्रीतनयत्वावच्छिन्नं श्यामत्वं, तत्र तत्र शाकपाकजत्वं । यत्र यत्र मैत्रीतनयत्वावच्छिन्नं मैत्रीतन्यत्वम्अभेदेऽप्यवच्छेदकस्वीकारात्-तत्र तत्र शाकपाकजत्वं नास्तीत्युपाधिः । एवं पक्षधर्मावच्छिन्नं साध्यव्यापकोपाधावपि लक्षणं तिष्ठति । यथा वायुः प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोपाधिः । पक्षधर्मावच्छिन्नसाध्यव्यापको(कं) भवत्युद्भूतरूपवत्त्वम् । यथा पक्षधर्मो भवति बहिर्द्रव्यत्वं तदवच्छिन्नं यत्साध्यम, यत्र यत्र बहिर्द्रव्यत्वावच्छिनत्वं प्रत्यक्षं तत्र तत्रोद्भतरूपवत्त्वमः यत्र यत्र बहिर्द्रव्यत्वावच्छिन्न प्रत्यक्षस्पर्शाश्रयत्वम्, तत्र तत्रोद्भूतरूपवत्त्वं नास्ति। यथा वायौ शुद्धसाध्यव्यापकोपाधावपि गच्छति । धूमवान् वह्नः, इत्यत्रोपाधिर्भवत्याइँन्धनम्, आईन्धनप्रभववह्निर्वा भवति चायम् । यद्धर्मपदेनात्र द्रव्यत्वं पृथिवीत्वं ग्राह्यम् । तथा च यत्र यत्र द्रव्यत्वावच्छिन्नो धूमस्तत्र तत्रार्दैन्धनमः यत्र यत्र द्रव्यत्वावच्छिन्नो वह्निस्तत्र तत्राट्टैन्धनं नास्ति, अयोगलोके [तस्य]अभावात् ।
इदं साधारण्यमितिव्याप्तिवारणार्थ-यतो व्यजनवत्त्वोपाधौ यद्धर्मावच्छिन्न इत्यत्र यत्पदेन महानसीयत्वं ग्राह्यम् । यथा च यत्र यत्र महानसीयत्वावच्छिनो वह्निः, तत्र [तत्र]व्यजनत्वमस्ति । यत्र यत्र महानसीयत्वावच्छिन्नो धूमस्तत्र तत्र व्यजनवत्त्वं तिष्ठत्येव । तथा चास्य साधनाव्यापकत्वमेवेत्यर्थः । एवमतिव्याप्तिनिरस्ता ।
ननु तथापि पक्षेतरत्वमुपाधिः स्यात्, तथाहि 'वह्निमान् धूमात्'-इत्यत्र पर्वतेतरत्वमुपाधिर्यथायत्र यत्र द्रव्यत्वावच्छिन्नो वह्निस्तत्र तत्र पर्वतेतरत्वम्, यत्र यत्र द्रव्यत्वावच्छिन्नो धूमस्तत्र तत्र पर्वतेतरत्वं नास्ति, पर्वते धूमस्याविद्यमानत्वादिति चेत्, न । व्यतिरेकित्वस्यासाधारण्यात् । तथाहि 'पर्वतोवयिभाववान्-पक्षेतरत्वाभावादित्य'नुमानेऽसाधारण्यं जातम् । पक्षमात्रवृत्तिरसाधारणः । पक्षेतरत्वाभावस्तु पर्वतेतरत्वाभावः । स च पर्वतमात्रे तिष्ठति । अस्य सपक्षाभावात् । उपाधिश्च स एव भवति यद् व्यतिरेकेण साध्याभाव साधयितुं शक्यते, यथा धूमवान्, वह्नः, इत्यत्राट्टैन्धनप्रभववह्निर्भवत्युपाधिः । तथा चार्टेन्धनप्रभववह्नयभावे धूमाभावः साधयितुं शक्यते । १. A तत्र हेतावु. २. B omits वा and reads भवतीति वाच्यम् । ३. B omits वह्निः. ४. A omits यत्र यत्र. ५. B -न्यभावो.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org