________________
११७
तर्कतरङ्गिणी
न चाव्याप्तिवारणार्थं साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिरिति वाच्यम्। तथापि पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधावव्याप्तिः । तथाहि 'वायुः प्रत्यक्षः, उद्भूतस्पर्शाश्रयत्वात्'-इत्यत्रोद्भूतरूपत्वमुपाधिः । अयं च शुद्धसाध्यव्यापको न भवति । शुद्धं साध्यं भवति प्रत्यक्षत्वं, तद्व्यापकत्वमुद्भूतरूपत्वे नास्ति । तथाहि यत्र यत्र प्रत्यक्षत्वं तत्र तत्रोद्भूतरूपत्वं नास्ति । आत्मादौ व्यभिचारात् । आत्मनि मानसप्रत्यक्षत्वं वर्तते । तत्रोद्भूतरूपवत्त्वं नास्ति । उद्भूतत्वं च रूपे प्रत्यक्षत्वकारणतावच्छेदको जातिविशेषः । तेन रूपत्वव्यापका विजातिरूपनिष्ठा तिष्ठतीति ।
साधनाव्यापकत्वं- यथा यत्र यत्र प्रत्यक्षस्पर्शान्वयत्वं तत्र तत्रोद्भूतरूपत्वं नास्ति । वायौ व्यभिचारात् । हेतुव्यापकत्वव्यभिचार उपाधौ न तु साध्यव्यापकत्वव्यभिचारो' हेतावुच्यते । तेन न पक्षे-पक्षतल्ये व्यभिचारो दोषायेत्यलग्नकं वेदितव्यम् । तथा चायं पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधिः । तथाहि पक्षधर्मो भवति वह्निः । द्रव्यत्वं तदवच्छिन्नं यत्साध्यं प्रत्यक्षत्वं तस्य व्यापको भवत्युद्भूतरूपवत्त्वलक्षणोपाधिः । तथा च यत्र यत्र वह्निद्रव्यत्वावच्छिन्नं प्रत्यक्षत्वं तत्र तत्रोद्भूतरूपवत्त्वम् । यत्र यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र तत्र रूपवत्त्वं नास्तीति साधनाव्यापकोऽयमुपाधिर्भवति । अत्रोपाधौ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वरूपं लक्षणमव्याप्तम्।
शुद्धसाध्यव्यापकः उपाधिर्वा । आर्टेन्धनादावव्याप्तेश्च । यदि च पक्षधर्मा-वच्छिन्नसाध्यव्यापकत्वे सति साधनाव्याकत्वमुपाधिलक्षणम्, तदा साधनावच्छिन्नासाध्य-व्यापकोपाधौ शुद्धसाध्यव्याकोपाधौ वाऽऽर्दैन्धनादावव्याप्तेश्चेत्युपाधिलक्षणयोः परस्परमव्याप्तिवारणार्थं काचन विवक्षा कर्तव्या । तद्वारणार्थं यत्किञ्चित्साध्यव्यापकत्वे सति साधनाव्यपकत्वमिति । तथा च यत्किञ्चितपदं साधनावच्छिनसाध्यव्यापकपक्षधर्मावच्छिन्नसाध्यव्यापकोपाधिसाधारण्यपरम् । तथा च यत्र मैत्रीतनयत्वावच्छिन्नं श्यामत्वं अथ च बहिर्द्रव्यत्वावच्छिन्नं प्रत्यक्षं तत्र शाकपाकजत्वम् अथ च तत्रानुद्भूतरूपवत्त्वं चेति क्रमेण ज्ञेयम् । एवमुक्तोऽपि 'वह्निमान् धूमात्'-इत्यत्रापि व्यजनवत्त्वमुपाधिः स्यात् । तस्यापि यत्किञ्चित्साध्यं भवति महानसीयो वह्निः, तद्व्यापकत्वं व्यजनवत्त्वं लक्ष्यविशेषवत्त्वं, तस्य धूमाव्यापकत्वं पर्वतीयधूमव्यापकताभावात् ।
ननु साध्यतावच्छेदकावच्छिन्नसाध्यव्यापकत्वं विवक्षितं येन' वढेळ'जनत्वं व्यापकं न स्यात् । अस्यार्थः' साध्यतावच्छेदकं भवति च वाह्नित्वं तदवच्छिन्नं भवति वह्निमात्रम् तद्व्यापकत्वं व्यजनत्वे नास्ति । व्यजनवत्त्वस्य पार्वतीयवह्निव्यापकत्वाभावात् । इदं विवक्षितं नास्ति । यदीह विवक्ष्यते तदा साधनावच्छिन्नसाध्यव्यापकपक्षधर्मावच्छिन्नसाध्यव्यापकयोरव्याप्तिः । तद्वारणार्थ
१. B -कत्वस्य व्य. २. B यथा न वढे. ३. The both of the Mss read व्यञ्जन it has been changed as व्यजन (=a fan) to suit the proper context. ४. B अयमर्थः. ५. B -वच्छदेकः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org