________________
११६
तर्कतरङ्गिणी मार्टेन्धनेऽस्तीति नाव्याप्तिरार्दैन्धने । एवं हेतुदिश्यपि हेतुतावच्छेदकसम्बन्धेनैव हेत्वधिकरणे हेतुतावच्छेदकसम्बन्धेन योऽत्यन्ताभावस्तत्प्रतियोगित्वं साधनाव्यापकत्वरूपं ग्राह्यमिति ।
ननु तथापि ''द्रव्यं सत्त्वात्'-इत्युपाधिर्भवति संयोगः । यथा यत्र यत्र द्रव्यत्वं तत्र तत्र संयोगः, यत्र यत्र सत्त्वं तत्र तत्र संयोगो नास्ति । गुणे व्यभिचारादिति । अत्रोक्तलक्षणेऽव्याप्तिर्यथा-अत्र साध्यं भवति द्रव्यत्वं तद्व्यापकत्वं संयोगे चेदं साध्यतावच्छेदकसम्बन्धेन-समवायसम्बन्धेन द्रव्यत्वाधिकरणे घटदौ साध्यतावच्छेदकसम्बन्धेन समवायसम्बन्धेनैव योऽत्यन्ताभावो गुणत्वादीनां तदप्रतियोगित्वं संयोगे वाच्यम् । तत्तु संयोगरूपोपाधौ न सम्भवति । तथाहि साध्यतावच्छेदकसम्बन्धेन-समवायसम्बन्धेन द्रव्यत्वाधिकरणे द्रव्ये साध्यताऽवच्छेदकसम्बन्धेन समवायसम्बनधेन संयोगात्यन्ताभावस्यापि वर्तमानत्वात् संयोगस्याव्याप्यवृत्तित्वात् संयोगस्य साध्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वं नास्तीत्यव्याप्तिः । तद्वारणार्थमभावे विशेषणं प्रतियोगिव्यधिकरणं दातव्यम् । तथा च द्रव्यत्वाधिकरणे द्रव्ये यः संयोगात्यन्ताभावो वर्तते स प्रतियोगिव्यधिकरणो न भवति । स तु प्रतियोगिसमानाधिकरण एव । तथा च द्रव्ये प्रतियोगित्वव्यधिकरणोऽत्यन्ताभावो गुणत्वादीनामेव तदप्रतियोगित्वं संयोगे तिष्ठत्येवेति संयोगस्योपाधौ नाव्याप्तिः ।
तथा चेदं लक्षणं जातम्-साध्यतावच्छेदकसम्बन्धेन-साध्यसमानाधिकरणसाध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वे सति हेतुतावच्छेदकसम्बन्धेन हेतुसमानाधिकरणहेतुतावच्छेदकसम्बन्धेनात्यन्ताभावप्रतियोगित्वरूपं लक्षणमुपाधेः पर्यवसन्नम् । अर्थस्तु पूर्वं कृत एव । . अत्र लक्षणेऽव्याप्ति शङ्कते-नन्विति साधनेति साधनावच्छिनसाध्यव्यापको यः उपाधिः, अथ च पक्षधर्मावच्छिन्नसाध्यव्यापको यः उपाधिः तत्रेदं लक्षणमव्याप्तम् । आद्यो यथा-'सः श्यामः, मैत्रीतनयत्वात्' इत्यत्रोपाधिर्भवति शाकपाकजत्वम् । स च शुद्धसाध्यव्यापको न भवति । शुद्धं साध्यं भवति श्यामत्वम् । तद्व्यापकत्वं शाकपाकत्वरूपोपाधौ नास्ति । तथाहि यत्र [यत्र]श्यामत्वम्, तत्र तत्र शाकपाकजत्वं नास्ति । श्यामत्वं वर्तते काके, अंगारादौ च, तत्र शाकपाकजत्वं नास्ति । शुद्धसाध्यव्यापकत्वाभावात् । अयं साधनावच्छिन्नसाधव्यापकः उपाधिः । साधनं भवति मैत्रीतनयत्वम्, तदवच्छिनं यत्साध्यं श्यामत्वरूपं तद्व्यापकत्वमुपाधौ वर्तते । तथा च स यत्र यत्र मैत्रीतनयत्वावच्छिन्नत्वं मैत्रीतनयत्वाधिकरणे श्यामत्वं तत्र तत्र शाकपाकजत्वम् । यत्र यत्र मैत्रीतनयत्वं तत्र तत्र शाकपाकज[त्वं] नास्ति । गौरमैत्रीतनये व्यभिचारात् । अतः शाकपाकजत्वरूपोपाधौ साध्यव्यापकत्वे सति साधनाव्यापकत्वाभावादव्याप्तिः । १. B omits द्रव्यं. २. B तथा व्या. ३. B repeats the reading between द्रव्यताधिकरणे....
........सम्बन्धेन. ४. A तथा पाकत्वं (!). ५. B omits स.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org