________________
तर्कतरङ्गिणी
११५ घनरूपे हेतुसाध्यसामानाधिकरण्यं नास्ति । सत्त्वं]भवति हेतुः, क्षणिकत्वं साध्यम् । अनयोः सामानाधिकरण्यग्राहकं प्रमाणं नास्ति । दृष्टान्ते घने क्षणिकत्वसत्त्वयोः सहचारो नास्तीति भावः ।
क्वचिदिति यदि चायमपि सोपाधिकत्वेनैव हेत्वाभासोऽङ्गीक्रियते, तदा क्षणिकत्वं च कुत्रापि प्रसिद्धं चेद्भवति तदा तत्रोपाधिवक्तुं युज्यते । उपाधेः साध्यव्यापकत्वात् । यदि च साध्यं क्षणिकं कुत्रचित्प्रसिद्धं भवेत् तदा तेन सह व्यापकत्व सिध्येत् । अयं दृष्टान्तः उभयवादिसद्धः न भवति। उभयवादिसिद्धस्तु चरमशब्दो भवति । स च यथा यो शब्द- उत्पन्नः तद्व्यवहितोत्तरक्षणे प्रलयकालो वृत्तस्तत्र जन्यमात्रस्य ध्वंसो भवति । ततो द्वितीयक्षण एव तस्य नाशात् । क्षणिकत्वमिति यदि द्वितीयक्षणे शब्दस्तिष्ठेत् तदा प्रलयत्वानुपपत्तिरिति केनचिद्व्याख्यातमुपाधिवादमवतारयति ।
साध्यव्यापक इतीति साध्यस्य योधर्मो व्यापको भवति, साधनस्य चाव्यापको भवति धर्मस्तत्र साधने उपाधिः । यथा 'धूमवान् वर्ते-रित्यत्रा!न्धनम्, आर्टेन्धनप्रभववह्निमत्त्वं चोपाधिः 'वा। साध्यं भवति धूमः । तद्व्यापकत्वं धूमसमानाधिकरणत्यन्ताभावाप्रतियोगित्वरूपमार्दैन्धनेऽऽर्दैन्धनप्रभववह्निमत्त्वेवा तिष्ठति । साधनाव्यापकत्वं च वह्निसमानाधिकरणात्यन्ताभावप्रतियोतोगित्वरूपं तिष्ठति । एतादृशो धर्मः 'वह्निमान् धूमात्'-इत्यत्र कोऽपि नास्त्येव ।।
नन्वाइँन्धने ऽपीदं लक्षणं न गच्छति । साध्यव्यापकत्वाभावात् । तथाहि धूमसमानाधिकरणोऽत्यन्ताभावोऽऽर्दैन्धनस्यापि वर्तते । धूमावयवे यथा धूमाधिकरणं भवति धूमावयवस्तत्रावयवेऽऽर्दैन्धनस्याप्यत्यन्ताभावोऽ(व)रूपे च तदर्थम् । अत्रापि साध्यतावच्छेदकसम्बन्धेन साध्यसमानाधिकरणोऽत्यन्ताभावो ग्राह्यः । तथा च साध्यतावच्छेदकसंयोगसम्बधेन धूमाधिकरणं धूमो न भवति । भवति च तथाऽधिकरणं महानसादिकम् । तत्राट्टैन्धनात्यन्ताभावो नास्ति। अत्यन्ताभावो वर्तते गुणत्वादीनाम् । तदप्रतियोगित्वं चार्टेन्धनस्यास्तीति । न च संयोगसम्बन्धेन धूमाधिकरणे महानसे समवायसम्बन्धेनाइँन्धनात्यन्ताभावो वर्तते, तत्प्रतियोगित्वमार्टेन्धन स्याप्यस्तीत्यव्याप्तिरिति वाच्यम् ।।
साध्यतावच्छेदकसम्बन्धेनायं च व्यधिकरणसम्बन्धावच्छित्रप्रतियोगिताकाभावो न्यायमते स्वीक्रियते । परं व्यधिकरणधर्मावच्छिनप्रतियोगिताको ना (न) स्वीक्रियते । [तत्सम्]बन्धेन साध्याधिकरणे साध्यतावच्छेदकसम्बन्धेनैव यस्य कस्यचिदत्यन्ताभावः, तदप्रतियोगित्वमुपाधौ साध्यव्यापकत्वं वाच्यम् । तथा च संयोगसम्बन्धेन साध्यतावच्छेदकसम्बन्धेन धूमाधिकरणे महानसादौ य साध्यतावच्छेदकसम्बन्धेनात्यन्ताभावो वर्तते गुणत्वादीनां तदप्रतियोगित्व
१. B omits वा. २. B -स्यास्ती. ३. B omits the reading between साध्यताव... .....साध्याधिकरणे ४. B omits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org