________________
११४
तर्कतरङ्गिणी
(XI) विपक्षलक्षणम् ।
निश्चितसाध्याभाववान् विपक्षः-इत्युक्ते यत्राव्याप्तवृत्तिसाध्यं भवति संयोगविभागादिकं तदधिकरणीभूतो यः पक्षस्तस्यापि विपक्षत्वं स्यादत उक्तं व्याप्यवृत्तीति साध्यविशेषणम् । तथा चर व्याप्यवृत्ति यत्साध्यं तस्य योऽत्यन्ताभावस्तद्वान् यः स विपक्ष इत्युच्यते । यथा 'इदं द्रव्यम् गुणवत्त्वात्' इत्यत्र द्रव्यत्वे साध्ये विपक्षो भवति गुणादिः, व्याप्यवृत्तिसाध्यं भवति द्रव्यत्वम्, द्रव्यत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् । तस्य व्याप्यवृत्तित्वं द्रव्यत्वाधिकरणे, द्रव्यत्वात्यन्ताभावो नास्ति । भवति च गुणत्वादीनां, तद्प्रतियोगित्वात् । द्रव्यत्वस्य व्याप्यवृत्तित्वं संयोगस्य च संयोगसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् । यतः संयोगाधिकरणे वृक्षे संयोगात्य-न्ताभावोऽपि तिष्ठति । तत्प्रतियोगित्वं संयोगे वर्तते इति तेन संयोगरूपसाध्यस्याव्याप्यवृत्तित्वमित्यर्थः । ननु 'पर्वतो वह्निमान्'-इत्यादौ वढेरप्यव्याप्यवृत्तित्वमस्त्येव, किञ्चिद्देशावच्छेदेन तदभाव इति चेत्, न। प्राचीनमते द्रव्यस्याव्याप्यवृत्तित्वं पर्वते वह्निरिति प्रतीतेः न च बाधात् सा प्रतीतिर्धान्ता यतो नितम्बे हुताशनो न शिखरे इति वाच्यम् । नितम्बादि भवति तदवयवः । तथा च पर्वतावयवे वह्निर्नास्ति किन्तु पर्वते वह्निरस्त्येव ।
शिरोमणिमते संयोगसम्बन्धेन द्रव्यमव्याप्यवृत्तिरेव । तथा च प्रतियोग्यसममानाधिकरणसाध्यात्यन्ताभाववान् विपक्ष इति प्रतियोग्यसमानाधिकरणो यः साध्यात्यन्ताभावः, तद्वानिति । तथा च यत्र संयोगसाध्यो भवति तत्रापि यद्यपि द्रव्येऽपि संयोगसामान्याभावो वर्तते तथापि सः प्रतियतोग्यसमानाधिकरणो न भवति द्रव्ये संयोगस्यापि वर्तमानत्वात् । प्रतियोग्यसमानाधिकरणो यो संयोगात्यन्ताभावः वर्तते गुणादौ स एव संयोगे साध्ये विपक्षो गुणादिके । विपक्ष इति एवं वह्नौ साध्येऽपि पर्वते यो वयभावो वर्तते किञ्चिद्देशावच्छेदेन स प्रतियोग्यसमानाधिकरणो न भवति तत्प्रतियोगिनो वह्नरपि सत्त्वात् । तत्र च प्रतियोग्यसमानाधिकरणो वढेरभावो हृद इति । [पक्ष] सपक्षविपक्षा इति ।
॥ हेत्वाभासाः॥ (I) व्याप्यत्वासिद्धः।
सहचाराभावादिति व्याप्तिग्राहकं यत्प्रमाणम्, तन्नास्ति । सहचारो भवति व्याप्तिग्राहकः प्रमाणं, तदभावादित्यर्थः । [अ] उपाधिस्वरूपम्
"व्यभिचारादित्यर्थ इति उपाधिसद्भावे चावश्यं व्यभिचार इत्यर्थः । सत्त्वे इति 'दृष्टान्ते १. B Repeats तस्यापि. २. A omits च. ३. Pl. add वह्नि र्वतते, किञ्चिदेशावच्छेदेन. ४. B वर्तते । वह्नि. ५. B अयं. ६. B तथा ७. It is अव्य in त.भा.प्र. ८. B दृष्टान्तेन.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org