________________
तर्कतरङ्गिणी
११३ कारणम् । तथा च पक्षताऽनुमितौ स्वातन्त्र्येण कारणम् ।
यद्यपि प्राचीनैः पक्षस्यैव लक्षणं कृतमस्ति तथापि पक्षपदेन पक्षता ग्राह्या । पक्षज्ञानमनुमितौ कारणम् । न तु पक्षतायाः ज्ञानं कारणम् । पक्षतायाः स्वरूपसत्या एवानुमितिकारणत्वात् ।
विशिष्टभाव: त्रिधा कारणं भवति-एको विशेषणाभावप्रयुक्तः (१) द्वितीयो भवति विशेष्याभावप्रयुक्तः, (२) तृतीयो भवत्युभयाभावप्रयुक्तः (३) । तथाहि विशेष्यरूपा सिद्धिर्वर्ततेऽथवाऽनुमित्याऽपि वर्तते । तत्र विशेषणाभावप्रयुक्तो विशिष्टाभावस्तिष्ठति । विशेषणं भवत्यनुमित्साविरहः । तदभावो भवत्यनुमित्सा । तता चानुमित्साऽथ च सिद्धिरित्युभयं यत्र तिष्ठति तत्रानुमित्साविरहविशिष्टसिद्ध्यभावो वर्तते । यत्र सिद्धिर्वर्तते वह्निमानेतादृशी तत्र यद्यनुमित्साजाताऽनुमानमेव वह्निज्ञानं भवत्वित्यनुमित्सा । तदानीमनुमित्साविरहविशिष्टसिद्ध्यभावो वर्तते । अयं च विशेषणाभावप्रयुक्तो विशिष्टाभावो वर्तते । अनुमित्साविरहरूपं 'यद्विशेषणं तदभावो भवत्यनुमित्सा। तद्विशिष्टा सिद्धिर्यत्र वर्तते यत्र यद्यपि विशेष्यं सिद्धिरूपं तिष्ठति तथाप्यनुमित्साविरहरूपविशेषणविशिष्टं सिद्धिरूपं विशेष्यं नास्तीति । (१) इयमेवैकपक्षता । विशेष्याभावप्रयुक्तो विशिष्टाभावः-यथा यत्र चानुमित्साविरहो वर्तते-इत्येवं रूपं विशेषणं वर्तते, अथ च सिद्धिर्नास्तीति विशेष्यं नास्ति, तत्र विशेष्याभावप्रयुक्तो विशिष्टाभाव: "इयमपि विशेष्याभावप्रयुक्तविशिष्टाभावरूपा पक्षता (२) । उभयाभावप्रयुक्तो विशिष्टाभावो यथा यत्रानुमित्साऽपि वर्तते इति विशेषणाभावोऽस्ति यत्र च सिद्ध्यभावोऽपि विशेष्यो भावरूपोऽस्ति तत्रोभयाभावः(व)प्रयुक्ते विशिष्टाभावस्तिष्ठति, तत्रापि पक्षता (३) । एतादृशधर्मविशिष्टो यो धर्मी, सः पक्षः, पक्षतायाः पक्षधर्मत्वात् । एतदेवाहअनुमित्साविरहेत्यादि।
ननु विशिष्टाभावस्य विशेषणाभावविशेष्याभावातिरिक्तत्वे किं प्रमाणमिति चेत्, प्रतीतिरेव । यथेह गृहे दण्डी नास्तीति प्रतीति हि यत्र दण्डो वर्ततेऽथ च पुरुषो नास्ति तत्रापि दण्डी नास्तीति प्रतीति र्जायते । यत्र पुरुषो वर्ततेऽथ च दण्डो नास्ति तत्रापीयमेव प्रतीतिः । यत्र चोभयं नास्ति तत्राप्येतादृश्येव प्रतीतिरिति तथा चानुगतधर्मव्यतिरेकेणेयं प्रतीतिरनुपपन्ना भवतीति विशिष्टाभावत्वरूपोऽनुगतो धर्मः स्वीकर्तव्य एवेति । अन्यथा यत्र दण्डविशिष्टो पुरुषो वर्तते तत्रापि दण्डी नास्तीति प्रतीतिः स्यात् । यद्यपि दण्डः हस्ते वर्तते तथापि भूतले नास्तीति दण्डाभावविषयिणी दण्डी नास्तीति प्रतीति श्चेद्भवति, तदा यत्र दण्डविशिष्टो पुरुषो वर्तते तत्राप्येतादृशी प्रतीति भवतु । अस्मिन्नये तु न भवति । दण्डविशिष्टो भवति पुरुषः । तस्य भूतले वर्तमानत्वात् । ततो विशिष्टाभावस्तु तदुभयाभ्यामतिरिक्त एवेति दिक्।
१. B omits यद्. २. This be more suitable after इयमेवैकपक्षता. ३. B omits तत्र. ४. B -भावो यथा इयमपि. ५. A एव ।
तर्क.-१५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org