________________
११२
तर्कतरङ्गिणी भावः पृथिवीतरभेदाभावः तत्र पृथिवीत्वाभाव इति सहचारज्ञानानन्तरं पृथिवीत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानच्छेदकेतरभेदत्वावच्छिनेतरभेदसामानाधिकरण्यरूपाऽन्वयव्याप्तिः पृथिवीत्वनिष्ठा व्यतिरेकसहचारेण गृह्यत इत्यर्थः । तथा च व्यातिविशिष्टपक्षधर्मताज्ञान-सत्त्वेनान्वयव्याप्तिसत्त्वेन व्यतिरेकिण्यपि न लक्षणस्यानुपत्तिः।
__ वस्तुतस्तु व्यतिरेकसहचारेण व्यतिरेकव्याप्तिग्रहणेऽपि न दोषः । साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा या व्यतिरेकव्याप्तिः, पक्षधर्मे सत्त्वात्, तथा च पक्षधर्मतायां व्याप्तिवैशिष्ट्यमस्तीति नानुपपत्तिर्लक्षणस्य । यथा 'पृथिवी इतरेभ्योभिद्यते, पृथिवीत्वात्,' इत्यत्र व्यतिरेकिणि साध्याभावो भवति पृथिवीतरभेदाभावः, तत्प्रतियोगित्वं पृथिवीत्वे पक्षधर्मे तिष्ठति, ततो नानुपपत्तिः । तथा च पृथिवीतरभेदव्याप्यं, इतरभेदाभावव्यापकीभूताभावप्रतियोगित्वात्, अन्वयव्यतिरेकिवत् । यत्रेतरभेदाभावव्यापकीभूताभावप्रतियोगित्वं वर्तते तत्र पृथिवीतरभेदो वर्तते । यथाऽन्वयव्यतिरेकिणि धूमे हेताविति। व्यतिरेकव्याप्तिरपि पक्षधर्मोपरिप्रकारत्व' इति सिद्धम् ।
रूपचतुष्टयमेवेति तथा च व्यतिरेकिणि सपक्षे सत्त्वं नास्ति, तस्य सपक्षाभावात् । केवलान्वयिनि तु विपक्षाद् व्यावृत्तिर्नास्ति, तस्य विपक्षाभावात् । तथाप्यनयोः चतुष्टयमेवाङ्गमधिकस्यानुपयोगादित्यर्थः । पञ्चाङ्गयां त्वन्वयव्यतिरेकिण्येवोपयोग इति भावः । (x) पक्षतालक्षणम् ।
पक्षतां विचारयति-नन्विति तथा च यत्र साध्यं निश्चितं चक्षुरादिना तत्रैव पुनरप्यनुमित्सया तर्करसिकेण साध्यमनुमीयते । तत्रेदं पक्षतालक्षणमव्याप्तम्, साध्यमचक्षुरादिना निश्चयेन सन्देहाभावात् । तथा च मूलकृदुक्तं सन्दिग्धसाध्यधर्मी पक्षः [इति]। धर्मपदस्यानुपयोगात् वैयर्थ्य, लाघवात् धर्मी एव संदिग्धसाध्यो ग्राह्यः । ननु कथं निश्चितेऽनुमानमिति चेत्, चक्षुरादिना निश्चितेऽपि पदानुमानेनानिश्चिते तर्करसिकाणामनुमानेन ज्ञान(तु)मिच्छा जायते । तथा चानुमित्सयैव तत्राप्यनुमान भयतीव्यर्थः । इच्छाघटिता सामग्री बलवतीति भावः । अनुमानाधिगतेऽपि शब्दादीच्छा-सम्भवाच्छब्देऽपि प्रमाणम् । तत्र तथा चानुमित्साघटिते पक्षतालक्षणं करोति-अनुमित्साविरहेति-अनुमित्सा अनुमातुमिच्छा । तस्यां विरहोऽत्र संसर्गाभावः । तद्विशिष्टा या सिद्धिः 'प्रत्यक्षादिज्ञानं तदभावः पक्षतेत्यर्थः । तथा चायं विशिष्टाभावो ग्राह्यः । विशेषणं भवति सिषाधयिषाविरहोऽनुमित्साविरह इति यावत् । विशेष्यं भवति सिद्धिः, तदभावो विशिष्टाभावःपक्षताऽभावपदार्थकः', तस्या प्रतिबन्धकाभावत्वेन “कारणत्वम् । प्रतिबन्धिका भवति सिषाधयिषाविरहविशिष्टा सिद्धिः । अनुमितौ तदभावः । प्रतिबन्धकाभावत्वेन
१. B -तर भिन्नं भेदत्वा. २. B प्रकार इति. ३. B omits पक्षता. ४. B inserts after कथं निश्चयेन .....मूलकृदुक्तं but it is a mere repetition of the previous sentence. ५. B प्रतिपक्षादि. ६. B -विरहादिति. ७. B -पदार्थः । ८. B कारणम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org