________________
तर्कतरङ्गिणी
१११ पक्षान्तःपातित्वात्, पक्षतारिक्ते साध्यप्रसिद्धरन्वयिता भवतीति ।
ननु व्यतिरेकिणि साध्याभावः कुत्र प्रसिद्धः कथं 'साध्याभावस्य साधनाभावव्याप्यत्वं तदा सम्भवति यदा कस्मिंश्चिदधिकरणे साध्याभावः प्रसिद्धो भवति । अत्र साध्यं भवति पृथिवीतरभेदः, तदभावः कुत्रपि प्रसिद्धो नास्ति । इतरपदेन जलादिकं ग्राह्यम् । भेदपदेन तदन्योन्याभावः । तदभाव: कुत्रापि प्रसिद्धो नास्ति । न पृथिवीतरभेदाभावो जलादौ प्रसिद्धः, इतरभेदस्य पृथिवीमात्रे स्थितित्वादिति वाच्यम् । जलादावपीतरभेदस्य वर्तमानत्वात् । तदभावोऽप्रसिद्ध इति-यथा 'पृथिवीतरो भवति वायुः, तद्भेदो वर्तते जले,' अथ च पृथिवीतरद्भवति जलम्, तद्भेदो वर्तते वायौ, इति सर्वत्र परस्परमितरभेदः बोध्यः । तथा चेतरभेदे जलादौ विद्यमाने कथं तदभावः न प्रसिद्धः इति न चेतरत्वावच्छिन्नभेदाभवो' वाच्यः यतः पृथिवीतरत्वावच्छिन्नं जलादि सर्वं भवति, तद्भेदस्तु न जलादौ, वर्तते च तद्भेदः पृथिव्यामेव, तदभावो जलादौ प्रसिद्ध एवेति वाच्यम् । जलादावपि इतरत्वावच्छिन्नभेदस्य सत्त्वात् । तथाहि जलं न पृथिवीतरद् यावदिति प्रतीत्या इतरभेदो जलादाप्यस्ति । तथा चेतरत्वावच्छिन्नस्यैकस्याप्रसिद्धया तद्भेदोऽप्यसिद्धः । तदभेदाप्रसिद्धया तदभावोऽप्यसिद्धः । इति चेत् न । अत्र भेदकूटस्यैव साध्यत्वात् । तथाहि यदा जलत्वावच्छिन्न प्रतियोगिक भेदस्तेजस्त्वावच्छिन्नप्रतियोगिकभेद: भेदः । एवं वायुत्वावच्छिन्नप्रतियोगिकभेदादीनां पृथिव्यां प्रसिद्धत्वात् । पुनस्तद्भेदाभावानामप्यनयैव रीत्या प्रत्येकं जलादौ प्रसिद्धिः । यथा जलत्वावच्छिनप्रतियोगिताकान्योन्याभावात्यन्ताभावो जले यथा जलत्वावच्छिन्नप्रतियोगिताकान्योन्याभावो भवति पृथिव्याम् । तस्यान्योन्याभावात्यन्ताभावो जलत्वरूपस्तिष्ठति जले । एवं तेजस्त्वप्रतियोगिकान्योन्याभावात्यन्ताभावस्तिष्ठति तेजसि । एवमन्यत्रापि । तथा चानया रीत्या इतरभेदोऽपि प्रसिद्धः । तदभावोऽपि प्रसिद्धः । पूर्वोक्तरीत्येतिध्येयम् । तथा च साध्यप्रसिद्धिर्भवतु मा भवतु वा, व्यतिरेकिण्यप्रसिद्धसाध्यके एवानुमितिर्जायते । परं साध्याभाव प्रसिद्धिरवश्यमपेक्षणीयेति सा दर्शिता ।
ननु व्यतिरेकव्याप्तिज्ञानं कथमनुमितिकरणं, व्याप्तिविशिष्टपक्षधर्मताज्ञानस्यैवानुमितिकरणत्वात्, तच्च तत्र नास्ति, यथा व्याप्तिरभावनिष्ठा, यथे[त्रे]तरभेदाभावस्तत्र पृथिवीत्वनिष्ठा तथा च व्याप्तिः प्रदर्शिता पृथिवीत्वाभावे, पक्षधर्मता च पृथिवीत्वे, व्याप्तिरूपं विशेषणं पृथिवीत्वरूपे विशेष्ये न वर्तते इति व्यधिकरणत्वात् व्याप्तिवैशिष्ट्यं व्याप्तिप्रकारकत्वं पक्षधर्मतायां नास्तीति चेत्, न । व्यतिरेकिणि व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यत इत्याचार्याः ।
_अयमर्थ:-व्यतिरेकसहचारेण साध्यसाधनयोरभावसहचारेणान्वयव्याप्तिरेव गृह्यते । यदभावयोः सहचारः गृहीतः तत्प्रतियोगिरूपभावयोरेव व्याप्तिः गृह्यते नान्ययोः । यथा यत्रेतरभेदा १. B साध्यते । भावस्य. २. B भेदस्य भावो. ३. B -ऽपि सिद्धः । ४. B -गिकभेदेऽप्यसिद्धः । तद्भेदाप्रसिद्ध्या, एवं ५. B -ध्यसि. ६. B -प्रकारत्वं.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org