________________
तर्कतरङ्गिणी
१२९ जिज्ञासायाः आकाक्षत्वं दूषयति-शाब्दबोध इति । यदा वाक्येन शाब्दबोधो जन्यते तदा जिज्ञासयैवेति नियमो नास्ति । यस्य जिज्ञासाऽस्ति तस्यापि शाब्दबोधोदयात् । यथा कस्यचित् पञ्चफलानि सन्तीति वाक्य श्रवणानन्तरं जाता कुत्रेतिरूपा तदा वक्रोक्तं नदीतीर इति । तदनन्तरं यथा जिज्ञासोः शाब्दबोधो भवति, तथा तन्निकटवर्तिनोऽजिज्ञासा(सोः)ऽपि भवतीति । तथा च जिज्ञा(सा)त्वं नाकाङ्क्षा भवति चेयम् । परस्परेति तथा च पदानां शाब्दबोधे जननीये परस्परं या सहकारिता, सैवाकाङ्क्षा । सहकारित्वं स्वेतरपदजन्यजनकत्वमेव पदनिष्ठम् । निराकाङ्क्षे गौरश्व इत्यादौ योग्यताविरहात् परस्परं सहकारिता नास्ति । परस्परं सहकारिता तत्रैव भवति यत्र योग्यता भवेत् । (III) योग्यता।
__ योग्यतामाह - अबाधितान्वयत्वमिति तथा च प्रकृतवाक्यार्थाबाधरूपा योग्यता । सा च मुख्यतयाऽर्थेष्वेव तिष्ठति, न पदेषु । पदेषु च तद्व्यवहारो लाक्षणिक एवेत्यत आह-उपचारादिति पदेषु योग्यतामाह-'एवमिति योग्य-वाक्यार्थप्रतिपादकत्वेनैव पदेषु योग्यताव्यवहार इत्यर्थः । (IV) आसत्तिः ।
आसत्तिमाह-सन्निहितत्वमिति पदनिष्ठाऽऽसत्तिरानीयते-अन्वयेति अन्वय प्रतियोगिनः ये पदार्थाः यथा घटमानयेति, अत्रान्वयो भवति घटकर्मकानयनरूपः तत्प्रतियोगिनस्तन्निरूपका भवन्ति घटकर्मत्वानयनरूपाः अर्थाः । तदुपस्थापकानि यानि पदानि-घट-अम्, आङ्-नी धातुरूपाणि सन्ति, तेषां मध्येऽन्वयविरोधिपदार्थः, पदार्थप्रतिपादकपदाव्यवधानेन यदुच्चारणंअविलम्बेनोच्चारणं तदेव सन्निहितत्वम् । अव्यवधानपदं तु घटपुरुषसंयोगः । घटं वाऽऽनयेति श्रवणानन्तरं घटकर्मकेऽऽनयनमिति शाब्दबोधो न भवति, तत्रासत्तेरभावात् । ननु काव्यादौ व्यवधाने कथमन्वयबोधः इति चेत्, न । आवृत्त्या दूरस्थपदं तदव्यवहितोत्तरं यदापद्यते तदनन्तरं बोधो भवति नान्यथेति हार्दम् । (V) पदानां समूहालम्बनत्वम् ।
एकज्ञानेति तथा च सकलपदानामनुभूतानां समूहालम्बनात्मकं यत्स्मरणं तद्विषयत्वमेव पदानां "समूह इति । अन्यथा पदानां समूहो न भवत्येव । तेषामाशुतरविनाशित्वादित्यर्थः । एकज्ञानविषयत्वमपि शङ्कते-नन्विति । तथा च घटमानयेति वाक्ये यदा 'मा' - काररूपवर्णस्योत्पत्तिर्जायते तदा घटरूपप्रथमयो शात्, तदानीं "नाशसमये घटाकाररूपयोलौकिकं प्रत्यक्षं कथं भवति ? 'अत्र हेतुमाह-विषयस्येति । 'घ'कार'ट'कार रूपयोरभावात् । लौकिकप्रत्यक्षे
8. It seems that some such schon might have been here though not found in both A and B. P.B पदनिष्ठा. ३. B सन्निकर्षत्वम्। ४. B समूहाः.५. B नाशत्वादि०.६.B -यो न स्यात्. ७. B नाम स.८. B तत्र.
तर्क.-१७
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org