________________
तर्कतरङ्गिणी वस्तुतः व्याप्तेर्लक्षणान्तरमाह-साध्यात्यन्ताभावेति साध्यात्यन्ताभाववान्योपदार्थः तत्रेदंगामित्वं तद्वत्तित्वं हेतौ व्याप्तिरित्यर्थः । इदं दूषयति-घट इति - अत्रभिधेयत्वं साध्यम्, प्रमेयत्वं हेतुः । अभिधेयत्वात्यन्ताभावोऽप्रसिद्ध इति तद्घटितसाध्यात्यन्ताभावगामित्वमप्यप्रसिद्ध स्यादित्यर्थः ।
ननु तथापि 'घटोऽभिधेयः' इत्यत्राप्यभिधेयत्वाभावः समवायसम्बन्धादिना प्रसिद्ध एवेति चेत्, न । साध्यतावच्छेदकसम्बन्धेन साध्याभावो विवक्षितः । हेतुतावच्छेदकसम्बन्धेन साध्याभाववद्गामित्वं विवक्षितम् । यथा 'घटोऽभिधेयः' इति । अत्र साध्यतावच्छेदकसम्बन्धो भवति स्वरूपसम्बन्धः, स्वतः स्वरूपसम्बन्धेनाभिधेयत्वाभावस्याप्रसिद्ध्याऽव्याप्तिरित्यर्थः । हेतुतावच्छेदकसम्बन्धविवक्षया तु व्यभिचारिणि नातिव्याप्तिः । यथा 'धूमवान्, वह्ने:'-इत्यत्र साध्यतावच्छेदकसम्बन्धेन संयोगसम्बन्धेन साध्याभाववद्भवत्ययोगोलकम् । तत्र हेतुतावच्छेदकसम्बन्धेन संयोगसम्बन्धेनायोगोलकवृत्तित्वस्य सत्त्वान्नातिव्याप्तिः ।
ननु समवायतया वाच्यत्वाभावो घट एव प्रसिद्ध इति चेत्, न । व्यभिचारात् । तथा हीदं वाच्यम्-'ज्ञेयत्वात्' इत्यत्र समवायतया वाच्यत्वाभावाधिकरणे घटत्वस्य ज्ञेयस्य सत्त्वात् । ननु पारिभाषिकमेवाव्यभिचरितत्वं वक्तव्यम् । यथा यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिकाः यावन्तोऽभावाः प्रतियोगिसमानाधिकरणाः यद्(द?)व्यभिचारितत्वं व्याप्तिः । यत्पदेन हेतुः-तत्समानाधिकरणाः हेत्वधिकरणकरणाः । साध्यतावच्छेदकावच्छिन्नस्य व्यापकतावच्छेदिका प्रतियोगिता येषामभावानां-तादृशा अभावा ग्राह्याः । तेषां य प्रतियोगी तेन समं सामानाधिकरण्यं हेतोः यथा चेदं गच्छति चेदं (?) 'वह्निमान् धूमात्' अत्र यथा धूमसमानाधिकरण: साध्यवह्नित्वावच्छित्रव्यापकतावच्छेदकप्रतियोगिताकाभावो भवति घटत्वेन वयभावः । यत्र यत्र वह्नित्वावच्छिन्नो वह्निः तत्र तत्र घटत्वेन वयभावप्रतियोगी । तथा च वह्निनिष्ठा या प्रतियोगिता साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदिका “जाता । एतादृशाभावस्य प्रतियोगी यो वह्निलक्षणस्तेन समं धूमस्य सामानाधिकरण्यं तिष्ठति । परं धूमसमानाधिकरणो वह्नित्वावच्छिनप्रतियोगिताकोऽभवास्तु न सम्भवत्येव । तस्य वल्यधिकरणत्वात् । हेत्वधिकरणे पर्वतादौ व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभाव एवायास्यति । स च घटत्वादिना वयभाव इति सद्धेतौ लक्षणं गतम् । न गच्छति चेदं व्यभिचारिणि । यथा 'धूमवान् वह्ने:', इत्यत्र वह्निसमानाधिकरणः साध्यतावच्छेदकावच्छिन्नव्याप्त्यवच्छेदकप्रतियोगिताकाभावानां मध्ये यथा घटत्वेन धूमाभावो भवति तथा धूमत्वावच्छिन्नप्रतियोगिताकाभावोऽपि भवति । तथा यत्र यत्र धूमत्वावच्छिन्नो धूमस्तत्र तत्र धूमत्वावच्छिन्नप्रतियोगिताकाभावप्रतियोगी भवति धूमः । तत्सामानाधिकरण्यं हेत्वधिकरणावच्छेदेन वह्नौ नास्ति । अयोगोलके १. B तदुदितसा.. २. B तथा 'घटो.. ३. B घटादौ. ४. B जातिः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org