________________
तर्कतरङ्गिणी धूमादि[अ] भावात् । धूमसामानाधिकरण्याभावात् व्यभिचारिणि न गच्छति । गच्छति चेदं'घटोऽभिधेयः, प्रमेयत्वात्', इत्यत्र प्रमेयत्वस्य समानाधिकरणः साध्यतावच्छेदकावच्छिनव्यापकतावच्छेदकप्रतियोगिताको भवति । घटत्वेनाभिधेयत्वाभावे तस्य च यत्र यत्राभिधेयत्वावच्छिन्नमभिधेयत्वं तत्र तत्र घटत्वेनाभिधेयत्वाभावप्रतियोग्यभिधेयत्वमेव । तत्सामानाधिकरण्यं च प्रमेयत्वे तिष्ठतीति तत्रापि व्याप्तिलक्षणगमनम् । व्यधिकरणधर्मावच्छिन्नप्रति-योगिताकाभावमादाय लक्षणसामञ्जस्यमिति भावः ।
ननु 'यत्'पदेन साध्यमेव कथं न ग्राह्यमिति चेत्, न । अङ्गुलिद्वयसंयोगोऽभाववानाकाशादित्यत्र साध्यो भवत्यङ्गलिद्वयसंयोगाभावः । तथा च साध्यतावच्छेदकावच्छिनव्यापकतावच्छेदकप्रतियोगिताका भावोभवत्यङ्गलिद्वयसंयोगाभावाभावोऽङ्गलिद्वयसंयोगरूपः । यत्र यत्रालिद्वयसंयोगाभावत्वावच्छिनाङ्गलिद्वयसंयोगाभावाभाव प्रतियोगीति, एतादृशाभावस्य प्रतियोगी भवत्यङ्गलिद्वयसंयोगाभावाभावः । तेन समं हेतोराकाशाभावस्य हेत्वधिकरणावच्छेदेन आकाशत्वाधिकरणावच्छेदेन समानाधिकरण्याभावादव्याप्तिः । तदर्थं हेतुपदं कृतम् । तथा च हेतुसमानाधिकरणाकाशाभावसमानाधिकरण: अङ्गलिद्वयसंयोगाभावत्वावच्छिन्नप्रतियोगिताकोऽभावो नास्ति । कथम् ? अङ्गलिद्वयसंयोगत्वाभावत्वावच्छिनप्रतियोगिताकाभावस्याङ्गलिद्वयसंयोगरूपत्वात् । तथा चैतादृशोऽभावो गुणत्वेन वाच्यत्वाभावो ग्राह्यः । भवति चायं साध्यतावच्छेदकावच्छिन्नव्यापकताव-च्छेदकप्रतियोगिताकः । यत्र यत्राङ्गलिद्वयसंयोगाभावत्वावच्छिन्नोऽङ्गलिद्वयसंयोगाभावस्तत्र तत्र गुणत्वेन वाच्यत्वाभावप्रतियोगी भवति वाच्यत्वम्, तत्सामानाधिकरण्यं हेत्वधिकरणावच्छेदेन समानाधिकरण्यं तिष्ठत्याकाशाभावे इति पूर्वानुमाने नातिव्याप्तिः ।
ननु 'यत्'पदं न दातव्यमेवेति चेत्, न । 'आत्मा, ज्ञानात्' इत्यत्र सद्धेतौ तददानेऽव्याप्तिः। तथाहि हेतुसमानाधिकरणपदत्यागे 'आत्मा, ज्ञानात्' इत्यनुमाने यथाऽऽत्मत्वं साध्यं तथा चात्मावच्छित्रव्यापकताऽवच्छेदकप्रतियोगिताकाभावः आत्मत्वावच्छिन्नप्रतियोगिताकाभावः । तथाहि 'यत्र यत्रात्मत्वावच्छिन्नात्मत्वं तत्र तत्रात्मत्वावच्छिन्नप्रतियोगिताकाभावप्रतियोग्यात्मत्वरूपं-' तत्सामानाधिकरण्यमात्मत्वाभावविशिष्टहेत्वधिकरणावच्छेदेन ज्ञाने स्वविशिष्टहेत्वसमानाधिकरणाप्रसिद्धथाऽव्याप्तिः । तद्वारणार्थं- 'यत्समानाधिकरणं' पदम् । न च हेतुसमानाधिकरणपददाने 'वह्निमान् धूमात्' इत्यत्राव्याप्तिः, यथा साध्यतावच् छेदकप्रतियोगिताकाभावो वह्नित्वावच्छिन्नप्रतियोगिताकाभावो भवति, यथा 'यत्र यत्र वह्नित्वावच्छिन्नो वह्निः, तत्र तत्र वह्नित्वावच्छिन्नप्रतियोगिताकाभावप्रतियोगी वह्निरूपः' तत्सामानाधिकरण्यं विल्यभावविशिष्ट१. B प्रतियोगिताकोऽभा.. २. B कृत्य(त्वा ?). ३. B ज्ञाने हेत्वधिकरणा.. ४. B स्वविशिष्टयत्सामा.. ५. B पदादाने. ६. omits वह्नि..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org