________________
तर्कतरङ्गिणी
८१ द्रव्यत्वेऽस्तीत्यत्र द्रव्यत्वाभावप्रतियोगित्वात् द्रव्यत्वस्येत्यतिव्याप्तिरिति चेत्, न । हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणत्वस्य विवक्षितत्वात् । प्रकृते च हेतुतावच्छेदकावच्छिन्नो हेतुर्भवति गुणकर्मान्यत्व-विशिष्टसत्तारूपः । तदधिकरणं च गुणादिकं न भवत्येव । भवति च तदधिकरणं द्रव्यमात्रम् । तत्र द्रव्यमाने द्रव्यत्वरूपसाध्याभावो नास्ति । भवति च द्रव्येऽभावो गुणत्वादीनाम् । तदप्रतियोगि भवति द्रव्यत्वम् । तत्सामानाधिकरण्यं च गुणकर्मान्यत्वविशिष्टसत्त्वेऽस्ति । द्रव्यत्वनिरूपिता गुणकर्मान्यत्व-विशिष्टसत्तारूपं(प?)हेतुनिष्ठा व्याप्तिरिति नातिव्याप्तिः ।
ननु तथापि 'वह्निमान धूमात्', इत्यत्रैतावति विवक्षितेऽप्यव्याप्तिः । तथाहि हेतुतावच्छेदक धूमत्वरूपावच्छिन्नधूमसमानाधिकरणो यः प्रतियोगितावच्छेदि(द)कावच्छिन्न प्रतियोगि-व्यधिकरण: पूर्वक्षणविशिष्टवयभावो वर्तते । तथा द्वितीयक्षणे पूर्वक्षणविशिष्टो वह्निर्नास्ति । भवति च प्रतियोगितावच्छेदकं 'पूर्वक्षणविशिष्टवह्नित्वम् । तदवच्छिन्नो भवति च पूर्वक्षणविशिष्टो वह्निः। तेन समं पूर्वक्षणविशिष्टवल्यभावो व्यधिकरणो भवति । उत्तरक्षणे पूर्वक्षणविशिष्टवतेरसत्त्वात् । तत्प्रतियोगित्वाद्वढेरित्यव्याप्तिरिति चेत्, न । हेतुतावच्छेदकावच्छिनहेतु-समानाधिकरणप्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिव्यधिकरणात् यत्राभावप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यम् । हेतुतावच्छेदकावच्छिन्ने साध्यतावच्छेदकावच्छिन्नसाध्यनिरूपिता व्याप्तिरित्यर्थः । तेन पूर्वं याऽव्याप्तिर्दत्ता सा न लगति । धूमत्वावच्छिन्नधूमसमानाधिकरणो यो वर्तते प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणः पूर्वक्षणवर्तित्वविशिष्टवल्याभावः, तस्य प्रतियोगिताच्छेदकं पूर्वक्षणवृत्तित्वविशिष्टवह्नित्वमनवच्छेदकं च साध्यतावच्छेदकं शुद्धं वह्नित्वरूपम् । तदवच्छिन्नो भवति वह्निः । तत्सामानाधिकरण्यं धूमेऽस्तीति नाव्याप्तिः । इत्यलं विस्तरेण । अधिकं शिरोमणिटिप्पणे ज्ञेयम् ।
प्रकृतं प्रस्तूयते स्वसमानाधिकरणेति अत्र दूषणं यथाश्रुते उद्भावयति-इदमिति भवति चायं सद्धेतुः । 'यत्र द्रव्यत्वं तत्र तत्र संयोगः ।'-इयं दैशिकी व्याप्तिः । द्रव्यत्वसमानाधिकरणो यथा गुणत्वादीनामत्यन्ताभावस्तथा संयोगात्यन्ताभावोऽपि वर्तते । संयोगस्याव्याप्यवृत्तित्वात् । तस्य प्रतियोगी भवति संयोगः । ततः स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वाभावादव्याप्तिरित्यर्थः । तथा च 'वृक्षःकपिसंयोगी । एतत्त्वात्' । इत्यत्र सद्धेतावव्याप्तिः । यथा एतत्त्वाधिकरणे वृक्षे कपिसंयोगात्यन्ताभावस्य मूलानवच्छेदेन सत्त्वात् । 'वृक्षः कपिसंयोगी, द्रव्यत्वात् ।' अयं हेत्वाभासः, घटादौ व्यभिचारात् ।
१. B - भवति पूर्व.. २. तत्सा..
तर्क.-११
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org