________________
बौद्धमतखण्डनम् । चा(च?)क्षुषाऽप्रतिभासे संसर्गः प्रतिभातो भवति, न ह्यन्येन्द्रियजज्ञान विषयोऽन्येन्द्रियजे ज्ञानेऽवभासते । ततो निर्विकल्पधियां संसर्गावभास एव नास्ति, कुतस्तद्रूपसंस्थानस्य वितिभेदचिन्ता स्यात् । या पुनरियं संसर्गलक्षणसंस्थानावभासिनी धीः सविकल्पिका सा न प्रमाणम्" [ प्रमाणविनिश्चयटीका पृ० ४६ A (?) ] इति ।
तदयुक्तम् । संयोगापरपर्यायस्य नैरन्तर्यरूपस्य संसर्गस्य निर्विकल्पकेऽवभासनात् । 5 नैरन्तयं च नाम शुन्याकाशदेशायोगः । न च वक्तव्यं शून्याकाशदेशस्याऽप्रत्यक्षत्वकृतोऽयं नैरन्तर्यावभासो न वैस्तुमत्परमाणुनैरन्तर्यकृत इति, भिन्नदेशयोः शकुन्तयोरन्तरालाकाशाप्रत्यक्षत्वेऽपि नरन्तर्याऽप्रतिभासनात् । तस्माद वस्तूनां संयोगमावा-ऽभावकृतौ नरन्तर्यप्रतिमासा-ऽप्रतिभासौ, न शून्याकाशग्रहणा-ऽग्रहणकृती। ततो नरन्तर्यरूपस्य संस्थानस्याविकल्पधियां भासनाद्वित्तिभेदचिन्ता ज्यायसी ।
10
परिहारान्तरं तु वार्तिकेन आह- ने तोति । यदि निर्विकल्पेऽसंसृष्टपरमाणुरूपमात्रावभास एवेष्यते न तु संसर्गरूपसंस्थानावमासस्तāवं सति विकल्पिकायामपि बुद्धौ संस्थानावभासो न स्यात् । अगृहीते निर्विकल्पधियामप्रतिभाते वस्तुनि कल्पनाऽभावाद्
विकल्पानुत्थानात् । प्रत्यक्षपृष्ठभाविना हि विकल्पेन यदेव निर्विकल्पके प्रतिभाति तदे49A बाध्यवसीयते नाधिकं किश्चित् । तदुक्तम्
"अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विर्षयत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [ हेतु बिन्दौ पृ० ३] इति । यदा च निर्विकल्पके संस्थानावभासो नास्ति तदा विकल्पे कुतोऽयं समायातः ?
अपि च, अस्यैवं गृहीतग्राहितया यदप्रामाण्यमभ्यधायि तदपि दरापास्तप्रसरं स्यात् , निर्विकल्पकाऽगृहीतस्यापि संस्थानस्याध्यवसायोत् । तद् विकल्पामासान्यथानुपपत्या निर्वि- 20 कल्पकधिामपि संस्थानावभासोऽभ्युपेयः । स च परमाणुमात्रे वस्तुनि न घटामञ्चति ।
१ संसर्गरूपसं ॥ २ जैनः ॥ ३ वस्तुसन्तः परमाणवः ।। ४ युक्ताऽस्माकम् || ५ न तर्हि विकल्पिकायामपि ॥ ६ परमाणूनां रूपं स्वभावः, तदेव, मात्रशब्दोऽवधारणे, तस्यावभासः ॥ ७ अगृहीते कल्पनाऽभावात् ॥ ८ निर्विकल्पकेन || ९ स्वलक्षणाध्यवसायी ।। १० कार्यमत्र स्वलक्षणे प्रवर्तनं तदध्यवसायश्च तेन । * दृश्यतां पृ० 144 A ॥११ कार्यरूपत्वात् तस्य विकल्पस्य ।। १२ नाकारणं विषय इति वचनात् ॥ १३ 25 विकल्पस्य ॥ १४ सति ।। १५ विकल्पस्य प्रामाण्यम् ॥ १६ तस्मात् ॥ १७ विकल्पोलेखा || १८ बुद्धौ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org