________________
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
अपि च, वासनैव संस्थान वित्तिभेदे निमित्तं वासनापि वा ? नाद्यः, घटोsयमिति विकल्पस्य सनातनत्वप्रसङ्गात् । कदाचित् प्रबोधात् कादाचित्कत्वमिति चेत्, न, प्रबोधोऽपि सहकार्यन्तरं वा वासनापरिपाको वा ? आद्ये वासनैवेति पक्षोपघातः । अत एव परिपाकोऽपि नार्थान्तरकृतः । स्वरूपमात्रकृतत्वे तु सनातनत्वप्रसङ्ग एव । वासनापीति पक्षे 48A तु संस्थानवास्तर्वत्वं स्यात् परमाण्वादीनां सर्वत्र साधारण्यात् । तस्माद्यथा विभिन्न- 5 ज्ञानान्यथानुपपत्तेः परमाणुभेदोऽमीष्टस्तथा संस्थान भेदोऽप्यस्तु तद्बुद्धिभेदस्याप्यन्यथानुपपन्नत्वात् ।
३०
नन्वयं परमाणुभेदोऽस्माभिरर्वाग्दशावस्थितैरास्थीयते, परमार्थदशायां पुनरयमपि नेष्यत एव परमाणुमात्रस्याप्यनाश्रयणात्, ततो वासनाकृतत्वं परमाणुभेदस्येष्टमेवेति । तन, यस्मादर्थं तु बाह्याभ्यन्तरभेदभिन्नं वस्तु वास्तवमेवेति पुनः साधयिष्यामः । ततः परमाणवो 10 वस्तुसन्त एवेति तेषां भेदकल्पनाया वासनाकृतत्वप्रसंअनं युक्तमेव ।
नाकल्पिकायां भेदकालुष्यम् । न तर्हि "विकल्पिकायामपि, अगृहीते कल्पनाऽभावात् । प्रमाणं हि स्यात् । अस्वलक्षणत्वेऽन्योन्याश्रयः । अधिकार्थक्रियाकारिणश्च कुतोऽस्वलक्षणत्वम् ?
पुनरपि परः प्राह - नौकल्पिकायां न निर्विकल्पके ज्ञाने भेदकालुप्यं संस्थान प्रतिभास- 15 caroङ्को भवति ।
"
te तावत् परमाणूनां संसर्गग्रहे सति संस्थानावभासः स्यात् । न चात्रिकल्पं संसर्गग्राहि । असंसृष्टत्वं हि परमाणूनां भेदो वा, पररूपदेशपरिहारो वा, शून्याकाशयोगो वा अन्तरालवर्तिभिन्नेन्द्रियग्राह्यवस्तुयोगो वा । तत्र न संसैगविभासो 48B रूपाभेदप्रतिभास: परमाणुमात्रपिण्डावभासप्रसङ्गात् । अत एव पररूपदेशस्य परिहारा - 20 मावभासोऽपि नैं । शून्याकाशस्तु नेन्द्रियगोचर इति तद्योगानवभासः कथं संसर्गाव भासः स्यात् । अन्तरालवर्त्तिभिन्नेन्द्रियग्राह्यं वस्तु तु स्पर्शादिपरमाणवः, न चामीपां
25
१ '६' [= षष्ठी विभक्तिरत्र विग्रहे ज्ञेया ] || २ अपिशब्दों हेत्वन्तरसूचकः । तेन वासना हेत्वन्तरं च कारणम् || ३ वासनायाः सदा सद्भावादित्यर्थः ॥ ४ वासनायाः || ५ '६' [ षष्ठी विभक्तिरत्र विग्रहवाक्ये शेया ] || ६ परमार्थत्वम् ॥ ७ शून्यवादिभिः ॥ ८ अर्थे तु साधयिष्यामः ॥ ९ अस्माकं त्वां प्रति । मूलादर्शे 'कल्पिकायामपि ' इति पाठ: ।। ११ नाकल्पिकायां भेदकालुग्यम् ॥ १२ वृत्तत्र्यखादिप्रतिभासः || १३ बृहद्धर्मोत्तर आह || १४ रूपं स्वभावः || १५ '६' [= अत्र विग्रहवाक्ये षष्ठी ज्ञेया ] ।। १६ असंसृष्टत्वाभावः संसर्गः | १७ स्वरूपाभेदप्रतिभासः || १८'६' [= षष्ठी विभक्तिरत्र विग्रहे ज्ञेया ] ॥। १९ अत्राभाव एकदेशः || २० संसर्गात्रभासः ||
१०
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org