________________
बौद्ध मतखण्डनम् । तैदेव चेति पुद्गलद्रव्यं तथा तथा पूर्वपर्यायविनाशेनोत्तरपर्यायोत्पादेन च परिणमते । न पुनरन्यो व्यनेशदन्यः प्रादुरभृत् । एतावतोभयावस्थयोः पुद्गलवावस्थानेन धौव्यमाह । तस्मात् सन्चोपचयापचयाभावेऽप्युत्पादादयो घटन्त एव ।
न चैते तदाप्यनेकत्वपरिणतय एव, धरणा-ऽऽकर्षणभावात् । अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ? वासनातः, रूपादि- 5
भेदोऽपि तत एवास्तु । अर्थं तु साधयिष्यामः । 46 B सम्प्रत्यन्यथाप्येकत्वपरिणति साधयितुमुपक्रमते-नै चैते परमाणवस्तदानीमपि स्थूल
परिणामकालेऽप्यनेकत्वपरिणतय एव । अत्र नआऽवधारणस्यैवाभावः कथ्यते, नानेकत्वपरिणतेः, तस्याः कथञ्चिदस्माभिरपीष्टत्वात् । धेरणा-ऽऽकर्षणभावात् , वंशाद्यर्वाग्भागे हि ध्रियमाणे समाकृष्यमाणे वा परभागस्याऽपि धरणा-ऽऽकर्षणे दृश्यते । यदि चाणवः स्थूलभाव- 10 कालेऽपि परस्पराऽसंश्लेषिण एव तदा कथमेतदुपपद्यते ? तस्माद्धरणा-ऽऽकर्षणान्यथानुपपत्त्या नाऽणूनां सर्वथाऽप्यनेकत्वम् ।
किञ्च, अविलक्षणेषु चाधिकस्य कस्यचिदभावात् सर्वत्रैकरूपेषु च रूप-रस-गन्ध-स्पर्श47A परमाणुषु सन्सु कुतोऽयमनुभवसिद्धः संस्थानस्य वृत्तादेवित्तिर्ज्ञानं तस्या भेदो वैचित्र्यं भवति ?
यथा हि घटे रूपादिपरमाणवः परस्परासंस्पर्शिनस्तथा पटादावपि, ततश्चोभयत्रापि विश- 15 कलितत्वाविशेषाद् घट-पटादिबुद्धीनामाभासभेदो न स्यात् , रूपादिपरमाणुमात्रग्राहित्वस्य सर्वासा तुल्यत्वात् । तस्माद् बुद्धथाभासभेदनिबन्धनं रूपादिपरमाणुभ्योऽधिकमपि किश्चिदम्युपगम्यम् ।
अत्र परो हेतुमाह-वासनात इति । यद्यपि सर्वत्र वुद्धीनां परमाणुमात्रमेव विषय477 स्तथाप्याभासभेदो न विरुध्यते, अनादिकालप्ररूढाविद्यावशात्तस्य समुत्पादात् । उत्तरयति- 20
'रूपादिभेदोऽपि रूपपरमाणको रसपरमाणवो गन्धपरमाणवः स्पर्शपरमाणवः इत्येवं परमाणूनां यो मेदः सोऽपि तत एव वासनात एव संस्थान वित्तिभेदवदस्तु । यथा हि संस्थानवित्तिभेदो वासनावशात् पर्यकल्पि तथा किमिति परमाणूनां रूपादिभेदोऽपि न कल्पितः ? सोऽपि वासनाकृत एव कल्पनीयः स्यात् , तद्वित्तिभेदस्य संस्थानवित्तिभेदवदेव वासनाकृतत्वेनैव गतत्वात् । १ तदेव च द्रव्यं तथा परिणमते ॥ २ न चैते तदाप्यनेकत्वपरिणतय एव ॥ ३ सूत्रम् ॥ * आदौ धारणा' इति लिखित्वा पश्चाद् घृष्ट्वा धरणा इति ग्रन्थकाराभ्यामेव संशोध्य कृतम् ॥ ४ अविलक्षणेषु च कुतोऽयं संस्थानवित्तिभेदः ॥ ५ आदिशब्दात् व्यस्र-चतुरस्र-आयामपरिग्रहः ॥ ६ वित्तीनाम् ॥ ७ सूत्रम् ।। ८ रूपादिभेदोऽपि तत एवास्तु ।। ९ परमाणुवित्ति ॥
25
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org