________________
44B
स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे ननु स्कन्धलक्षणं तत्सङ्घातेत्यादिना पूर्वममिहितमेव, तत् किं पुनरुच्यते ? न, 44A पूर्व कारण-भेद-धर्मप्रतिपादनेन स्कन्धलक्षणं कृतम् , अधुना तु स्वरूपंप्रतिपादनेनेति न दोषः ।
स्यान्मतिः-स्कन्धपरिणामे सति परमाणूनां स्वसत्तातः समधिकं यदि किश्चिदुत्पद्यते तदसत् कुतः समुत्पन्नम् ? सर्वथाऽप्यसतः समुत्पादप्रतिषेधात् । अथ नोत्पद्यते, 5 किन्तु यावदेव परमाण्यवस्थायां सत्त्वं तावदेव स्कन्धावस्थायामपि, कथं तर्हि स्कन्धभाव: अधिकस्य कस्यचिदभावादिति ? तन्न, यस्मात् सत्त्वोपचयाभावेऽपि परमाणुसत्त्वस्याधिक्योत्पादाभावेऽपि, तथाभावः परमाणूनां स्कन्धपरिणामोत्पादो न विरुध्यते । यद्यपि परमाणुसवस्य स्कन्धावस्थायामुपचयो नास्ति तथापि स्कन्धभावोऽचिन्त्यरूपत्वात् सङ्गच्छत एव ।
हेतुमाह-तुल्यमानयोरपि तुल्यं मानं परमाणुसङ्ख्या परमाणुसचं वा ययोस्तथाभृतयो- 10 रपि वन-भेण्डयोः, वजं हीरकादिः, मेण्डं काष्ठविशेषः, अल्प-महत्त्वादिदर्शनात् । 'आदि'ग्रहणात् सारत्वादिपरिग्रहः । समपरमाणुसङ्ख्ययोरपि वज्र-भेण्डयोर्वज्रमल्पं ससारं भेण्डं तु महनिःसारं च प्रत्यक्षतो लक्ष्यते । यथा चैतत्तथा यद्यप्यणूनां स्कन्धा-ऽस्कन्धभावावस्थायां सत्त्वं समानमेव तथापि स्कन्धभावो न विहन्यते, तथा परिणतेरचिन्त्यत्वात् , अन्यथा भेण्डेऽयं भावप्रसङ्गात् । ततस्तै एव तथा परिणमन्ते नाधिकं किश्चिदुत्पद्यत 15 इति कस्यासत: समुत्पादः ?
अथ परमाण्यवस्थातः स्कन्धावस्थायां सचं यदि नाधिकं नापि हीन किन्तु तावदेव कथं तीत्पाद-व्यय-ध्रौव्याणि, अधिकस्यानुत्पादात् पूर्वस्य चाव्ययादिति ? उच्यते- तथाऽपीति, यद्यपि पूर्व न हीयतेऽधिकं च नोत्पद्यते तथाऽपि उत्पाद-व्यय-ध्रौव्याणि सङ्गतान्येव पूर्वपर्यायस्य विश्लेषलक्षणस्य क्षयाद् विनाशात् । तस्य च क्षयो विज्ञायते तत्क्रियासिद्धेः, तस्य पर्यायस्य 20 या क्रिया कार्य तस्या असिद्धत्वात् । यां हि क्रियां विश्लेषपरिणामिनः परमाणवचक्रिवांसस्तां घनपरिणामिनो न कुर्वते । एतावता व्ययमाह ।
तथोतरेपर्यायश्च घनादिभावलक्षण उत्पद्यते । तस्य चोत्पादो विज्ञायते, तस्य पर्यायस्य या क्रिया तस्याः सिद्धेः विद्यमानत्वात् । पूर्वक एव हेतुरनञ् सम्बध्यते । या हि क्रिया धनपरिणामसम्भविनी सा दृश्यते । एतावता समुत्पादमाह ।
25 १ तत्संघातभेदत इति कारणम् । द्वयणुकादिभेदः । सांश इति धर्मकथनम् । २ कश्चिदत्यक्तरूपेत्यनेन । ३ सत्योपचयाभावेऽपि तथाभावो न विरुद्धः ॥ ४ तुल्यमानयोरपि हि वज्र-भण्डयोरल्पमहत्वादिदर्शनात ॥५ परिणतेरचिन्त्यरूपत्वाभावे || ६ स्कन्धाभाव ॥ ७ परमाणवः ॥ ८ तथाप्युत्पादव्यय-ध्रौव्याणि ॥ ९ पूर्वपर्यायक्षयात् ॥ १० सूत्रम् ॥ ११ उत्तरपर्यायश्चोत्पद्यते ॥ १२ तक्रियासिद्धेः ।।
45A
458
30
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org