________________
३२
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे स्यादेवम्-नायं नियमो यनिर्विकल्पकागृहीतं विकल्पो नाध्यवस्यतीति, वस्तुनस्त्रि49 B कालावस्थायित्वस्य सामान्यस्य चाधिकस्यापि ग्रहणादिति । तन्न । हिर्यस्मादेवमधिकार्थ
ग्राहकत्वाभ्युपगमे विकल्पः प्रमाणं स्यात् । यथा हि घटप्रत्यक्षादधिकार्थग्राहि पटप्रत्यक्षं पृथगेव प्रमाणं तथा विकल्पोऽपि निर्विकल्पविषयादधिकं वस्तुनो द्रव्यापेक्षया त्रिकालविषयत्वं सामान्यं च सदृशपरिणामरूपं परमार्थसदध्यवय॑न् पृथगेव प्रमाणम् ।
ननु नाऽनधिगतार्थग्राहकत्वमात्रेणैव ज्ञानस्य प्रामाण्यम् , द्विचन्द्रग्राहिणोऽपि प्रसङ्गात् , किन्त्वनधिगतस्वलक्षणग्राहकत्वेन । यदुक्तम्--
"तस्मादनधिगतार्थविषयं प्रमाणमित्यप्पनधिगते स्वलक्षण इति विशेषणीयम्" [हेतुबिन्दौ पृ. ३] इति । 50A ततोऽनधिगतत्रिकालावस्थायित्वादिग्राहिणोऽपि विकल्पस्य न प्रामाण्यम् , त्रिकाला- 10 वस्थायित्वादेरस्यलक्षणत्वादिति ।
तन्न, यस्मात् त्रिकालावस्थायित्वादेरेस्वलक्षणत्वेऽस्वलक्षणत्वाभ्युपगमेऽन्योन्याश्रयो दोप: स्यात् । यदि त्रिकालविषयत्वं सामान्यं चावस्तु स्यात्तदा तदध्यवसायिनो विकल्पस्याऽस्वलक्षणविषयत्वेनाप्रामाण्यं स्यात् । यदि च विकल्पस्याप्रामाण्यं स्यात्तदा त्रिकालावस्थायित्वादेरवस्तुत्वं स्यात् । न खलु प्रेमाणोपस्थापितोऽर्थोऽपरमार्थसन् भवति । 15
50B स्यान्मतम्-न प्रमाणग्रायः स्वलक्षणम् , किन्तु यस्पार्थस्य सन्निधाना-ऽसनिधानाभ्यां ज्ञानप्रतिभासभेदः स स्वलक्षणम् । ज्ञानप्रतिभासभेदकश्चार्थोऽर्थक्रियासमर्थ एव । यदुक्तम्
"तदेव परमार्थसत् , अर्थक्रियायोग्यलक्षणत्वाद्वस्तुनः" [न्यायविन्दुः १।१४,१५] इति । ततोऽयक्रियाकारित्वं स्वलक्षणत्वम् । तच्च विकल्पविषयस्य नास्ति । यदाह
"न च सामान्य काश्चिदर्थ क्रियामुपकल्पयति स्वलक्षणप्रतिपत्तेरूई तत्सामर्योत्पन्न- 20 विकल्पज्ञानग्राह्यम्" [ हेतुबिन्दुः पृ० ३] इति । १ नित्यत्वस्य ॥ २ घटस्वपटत्वादेः ॥ ३ प्रमाणं हि स्यात् ॥ ४ त्रयः काला विषयो यस्य वस्तुनस्तस्य भावस्त्रिकालावस्थायित्वमित्यर्थः ॥ ५ जनाभिप्रायेण उक्तम् ॥ ६ विकल्पः ॥ ७ ज्ञानस्य ॥ ८ आदेः सामान्यम् ।। ९ अस्वलक्षणत्वेऽन्योन्याश्रयः ।। १० ननु विकल्पस्य प्रामाण्यं स्यात् तदुपस्थापितोऽर्थोऽवस्तु स्यादित्याह-न खेति ॥ ११ प्रत्यक्षप्रमा॥ १२ अर्थः ॥ १३ अर्थक्रियायां योग्यं लक्षणं स्वभावो यस्य 25 वस्तुनः॥ १४ उपसंहारः ॥ १५ स्वलक्षणप्रतिपत्तिसामर्थ्य ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org