________________
स्थोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे अन्ये त्वमिदधति- "एकगुणस्निग्धस्य द्विगुणस्निग्धेनकगुणरूक्षस्य द्विगुणरूक्षेणापि सङ्घातो भवति" [ ] इति । न चायं राजपथः, वृद्धाम्नायेनागमोपनिबन्धदर्शनेन च विसंवाददर्शनात् ।
अन्यस्त्वाह- "एकगुणस्य व्यधिकादिगुणेनापि सजातीयेन सङ्घातो न भवति, तथा द्विगुणस्याप्यपरेण सजातीयेन द्वयधिकेनैव सङ्घातो भवति, न तु व्यायधिकगुणेनापि, तेन 5
पश्चगुणेन षडादिगुणेन वाऽपरेण सजातीयेनापि मह न सङ्घातः । एवं सर्वत्रापि द्वाभ्या41B मेवाधिक्यमवसेयम् । तथा सजातीयानामिव विजातीयानां मध्यमोत्कृष्टगुणानामपि गुणसङ्खयासाम्ये सङ्घातो न भवति" [ ] इति । तदप्यागमविसंवादीत्युपेक्षामर्हति ।
ननु सङ्घातः परिणामान्तरोत्पच्या सम्भवति । तत्र किमेकगुणस्निग्धस्त्रिगुणस्निग्धं परिणमयत्युताहो त्रिगुणस्निग्ध एकगुणस्निग्धम् , तथैकगुणरूक्षः त्रिगुणरूक्षं त्रिगुणरूक्षो 10
वैकगुणरूक्षम् , तथा कि द्विगुणस्निग्धो द्विगुणरूक्षं यादिगुणरूक्षं वा, तथा द्विगुणरूक्षो 42A द्विगुणस्निग्धं व्यादिगुणस्निग्धं वा परिणमयतीति ?
___ उच्यते-यादिसङ्ख्ययाऽधिक उत्कृष्टः स्निग्धलक्षणो रूक्षलक्षणो वा गुणो यस्य तोऽधिकगुणो हीनगुणस्य परिणमको भावान्तरापादको भवति, रेणोः क्लिन्नगुडवत् । यथैव हि रूक्षाणां सवतूनामम्भःपतो यादिसङ्ख्ययाऽधिकस्निग्धगुणा: परिणामान्तरोत्पादका दृश्यन्ते 15 तथेवकगुणादेः परमाणोस्त्रिगुणादिः परमाणुः परिणमको भवति । तथा समगुणस्तुल्यगुणसङ्ख्यः परमाणुरन्यस्य परमाणोः परिणम्योऽपि । 'अपि 'शब्दात् परिणमकोऽपि भवति ।
अत्र 'अपि'ग्रहणात् 'अधिकगुणः परिणमक एव' इत्येवं पूर्व योगेऽनुक्तमप्यवधारणं 42B गम्यते । अधिकगुणः परिणमक एव हीनगुणस्य । समसङ्ख्यगुणानां तु परस्परं परिणम्यत्वं परिणमकत्वं च द्रव्य-क्षेत्र-काल-भावापेक्षया भवतीत्यर्थः ।।
20 तदेवं सङ्घातपदं व्याख्याय मेदपदं व्याचष्टे-भेद इति स्कन्धपरिणामे सति परमाणूनां विलसाप्रयोगाम्यां विश्लेषपरिणामः पार्थक्यपरिणतिर्या स भेद इन्युच्यते ।।
कथश्चिदत्यक्तरूपाणां घनादिभावेनेकत्वपरिणतिः स्कन्धः । सत्त्वोपचयाभावेऽपि तथाभावो न विरुद्धः, तुल्यमानयोरपि हि वज्रभेण्डयो१ • दृश्यतां तत्वार्थराजबार्तिक[ ५।३५]प्रभृतिषु अन्येषु ।। २ त्रिगुणादिस्निग्धगुणेन ।। ३ चतुर्गुणेन ॥ 25 । ४ अधिकगुणः परिणमकः ॥ ५ ६ =विग्रहे षष्ठी विभक्तिः ) ॥ ६ बिन्दवः ॥ ७ समगुणः परिणम्योऽपि ॥ ८ भेदो विश्लेषपरिणामः ॥ ९ पार्थक्यरूपा परिणतिः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org