________________
संघातवर्णनम् ।
२५ ननु स्निग्ध रूक्षगुणयोरुत्कर्षापकतारतम्यं कथं प्रासिध्यद् येनोच्यते याद्यधिकगुणस्येति । उच्यते-तथा दर्शनात् , जलादजाक्षीरस्योत्कृष्टः स्निग्धगुणः, ततोऽपि गोक्षीरस्य, ततोऽपि महिषीक्षीरस्य, ततोऽपि करभीक्षीरस्येत्येवं स्निग्धताया उत्कर्पतारतम्यम् ।
तथा पांसुभ्यः कणिकानामुत्कृष्टो रूक्षगुणः, ताभ्योऽपि सर्कराणामित्येवं रूक्षताया उत्कर्ष398 तारतम्यमुत्पश्यामः । एषामेव पूर्वापेक्षया स्निग्ध-रूक्षयोरपकर्षतारतम्यं द्रष्टव्यम् । 5
अथ कथं विजातीयानां सङ्घातो भवतीति, उच्यते-विजातीयेन तु विसदृशेन पुनः परमाणुना सह साम्येऽपि समानसङ्ख्यगुणत्वेऽपि सति, मध्यम उत्कृष्टो वा गुण: स्निग्धत्वलक्षणो रूक्षत्वलक्षणो वा यस्य परमाणोस्तस्य सङ्घातो भवति 'विजातीय पदोपादानात् साम्यं गुणसङ्ख्यापेक्षया न पुनर्जात्यपेक्षया. सप्तमी च " यद्भावो मावलक्षणम्" [सि० २।२।१०६] इति योगेन, गुणसाम्यभवनक्रियया सङ्घातभवनक्रियाया लक्ष्यमाणत्वात् । 10
अपि: समुच्चयार्थः । सजातीयानां गुणसङ्ख्यावैषम्ये सङ्घातो भवति, विजातीयानां पुन40A गुण मङ्खयाया वैषम्येऽपि साम्येऽपि भवतीति । तथाहि-द्विगुणस्निग्धस्यापरेण द्विगुणरूक्षेण
त्रिगुणरूक्षेण वा तथा द्विगुणरूक्षस्याऽपरेण द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा, यावत् सङ्ख्याता-ऽसङ्ख्याता-ऽनन्तगुणस्य स्निग्धस्य रूक्षस्य वा सङ्ख्याता-ऽसङ्ख्याता-ऽनन्तगुणेन समधिकगुणेनापि वाऽपरेण रूक्षण स्निग्धेन वा सङ्घातो भवति । तदत्र मध्यमोत्कृष्ट- 15
ग्रहणाद् जघन्यगुणस्य स्निग्धस्य रूक्षस्य वा अपरेण जघन्यगुणेन रूक्षेण स्निग्धेन वा सह 408 सङ्घाताभावमाह । तेनैकगुणस्निग्धस्यैकगुणरूक्षेण, तथैकगुणरूक्षस्यैकगुणस्निग्धेन सङ्घातो न भवतीति स्थितम् ।।
तदयं सङ्घातसमासः- सजातीयानां पुद्गलानां यादिमिर्गुणमङ्ख्यावैषम्य एव, जघन्यगुणवर्जानां विजातीयानां पुनर्गुणसङ्ख्यायाः साम्येऽप्येकेन द्वाभ्यां व्यादिभिर्वा वैषम्येऽपि 20 सङ्घातो भवतीति । उक्तं च परममुनिभिः -
"निद्धस्स निद्रेण दुआहिएण लुक्रवस्प लुक्खेण दुआहिएणं । निद्धस्स लुक्खेण उवेड बन्धो जहन्नवो विसमे समे वो ॥"
[प्रज्ञापनासूत्रे गा० २००] इति । १ सूक्ष्मवालुका ।। २ कर्करिकाणाम् ॥ ३ विजातीयेन तु साम्येऽपि मध्यमोत्कृष्टगुणस्य ॥ ४ 25 '६' [ =विग्रहे षष्ठययन्तम् ] ॥ ५ काका ॥ ६ स्निग्धरूक्षाणाम् ॥ ७ अयेननै( अभिधीयमानै ?)स्सह यथासंख्यम् ॥ ८ उपलक्षणमेतत् , जघन्यस्य मध्यमोत्कृष्टेनापि न संघातः ।। ९ आदिशब्दो व्याख्येयः, याद्यधिकेनेत्यर्थः ।। १० पूर्वाधं सजातीयानां संघात उक्तः ॥ ११ वैषम्ये साम्ये वा ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org