SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २४ 37B स्वोपाटीकासहिते द्रव्यालकारे द्वितीये प्रकाशे तत्र सङ्घातं व्याचष्टे-'एकत्वपरिणामे स्कन्धपरिणतो औन्मुख्य न्यादिपरमाणूनों द्वथणुकादिस्कन्धपरिणामानुकूलपर्यायोन्पादारम्भः, औन्मुव्यस्य प्रकर्षः स्कन्धपरिणामानुकूलोनरोत्तरपर्यायवृद्धिः, प्रकर्षस्य पर्यन्त एकत्वपरिणतेरनन्तरः प्राचीनः परमाणुपर्यायः । तावद्धयनुकूलपर्यायोत्पत्तिप्रकर्षगमनं यावदेकत्वपरिणामो नात्मलाभ लभते, एकत्वपरिणामे तु नास्ति प्रकर्षगतिः, अत एकत्वपरिणामात् प्राचीनः परमाणूनां पर्याय औन्मुख्यप्रकर्ष- 5, पर्यन्तः, स च सङ्घातः । ततः सघातात् केचित् स्कन्धाः प्रादुःपन्तीति । __ अथायं सङ्घातः किंरूपाणां परमाणूनां भवतीति । अत्राह-स पूर्वपश्चितरूपः सङ्घातो 38. व्याद्यधिकगुणेन द्वयादिसङ्ख्यया, 'आदि' शब्दात् व्यादिपरिग्रहः, अन्यस्मात् परमाणोरधिको गुण: स्नेह-रूक्षलक्षणो यस्य से तथा । __अयमर्थः-एकगुणस्निग्धस्यापरेण त्रिगुणस्निग्धेन चतुर्गुणम्निग्धेन पश्चगुणस्निग्धेनापि 10 मह सङ्घातो भवति । तथा द्विगुणस्निग्धस्यापरेण चतुर्गुणस्निग्धेन पञ्चगुणस्निग्धेनापि भवति । एवं त्रिगुणादेरपि भाव्यम् । तथा त्रिगुणस्निग्धस्यापरेणैकगुणस्निग्धेन भवति । एवं चतुर्गुणादिस्निग्धस्याप्यपरेण यादिगुणस्निग्धेन भाव्यम् । तथैकगुणरूक्षस्यापरेण त्रिगुणरूक्षेण चतुगुण-पञ्चगुणरूक्षेण वा । तथा द्विगुणरूक्षस्यापरेण चतुगुणरूक्षेण, पञ्चगुणरूक्षेणापि भवति । एवं त्रिगुणादेगपि रूक्षस्य माव्यम् । तथा त्रिगुणरूक्षस्यापरेणकगुणरूक्षेण 15 388 सङ्घातो भवति, एवं चतुर्गुणादिरूक्षस्याप्यपरेण द्वयादिगुणरूक्षेण भाव्यम् । कस्य पुनर्यावधिकगुणेन सङ्घातो भवतीत्याह-स्निग्धस्य रूक्षस्य वा । उत्तरत्र 'विजातीय'ग्रहणादत्र सजातीयेनेति सामर्थ्य गम्यम् । ततः स्निग्धस्यापरेण द्वयाद्यधिकगुणस्निग्धेन रूक्षस्याप्यपरेण द्वयाद्यधिकगुणरूक्षेण सयानो भवतीति स्थितम् । तदत्र द्वयाद्यधिकपदेन समसङ्ख्यगुणानामेकाधिक गुणानां वा सदृशानां परमाणूनां सङ्घाताभावमाह । 20 ते कगुणस्निग्धस्यैकगुणस्निग्धेन, द्विगुणस्निग्धस्य द्विगुणस्निग्धेन, यावदनन्तगुणस्निग्ध स्थानन्तगुणस्निग्धेन, तथैकगुगस्निग्धस्य द्विगुणस्निग्धेन, द्विगुणस्निग्धस्य त्रिगुणस्निग्धेन, 394 यावदनन्तगुणस्निग्धस्यकाधिकानन्तगुणस्निग्धेन, एवमेव रूक्षस्य रूक्षेण सममङ्खय. गुणेनैकाधिकगुणेन वा सङ्घातो न भवतीति सिद्धम् , तथाविधपरिणतिशक्तरभावात् । १ एकत्वपरिणामोन्मुख्यपकर्षपर्यन्तः संघातः ॥ २ एकत्वपरिणामरूपे कार्य ॥ ३ यदनन्तरमेकत्ल- 25 परिणाम उत्पद्यते ।। ४ स व्यायधिकगुणेन स्निग्धस्य कक्षस्य वा ।। ५ परमाणुः ।। ६ एकगुणस्य सतः द्वाभ्यामधिको यः स त्रिगुणः ॥ ७ एकगुणस्निग्धस्य एकगुणस्नेहेन सहादीनाम् ।। ८ एकगुणनिग्धस्य द्विगुणस्नेहेन सहादीनाम् ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy